________________
सविवरणं भीज्ञाना
प्रकरणम्॥ १६८॥l
S+MASSURESS
अथवा न सर्वधर्मावभासकास्ततो न ज्ञानमिष्टं ते ॥ ननु निर्णयोऽपि तद्देशमात्रग्राहीत्यज्ञानम् ॥] ॥१६॥
ननु सम्यग्दर्शनकाल इव मिथ्यादर्शनकालेऽपि ज्ञानसामान्यसत्त्वात्कथमयं विभाग इत्यत्राहज्ञानं मिथ्यादृशां सर्व-मज्ञानमुपवर्णितम् ।। एकग्रहेपि सर्वस्य, ज्ञानं सम्यग्दृशां ग्रहात् ॥ १७॥
मिथ्यादृशां हि संशयादिरूपमतथाभूतं वा सर्वमेवाज्ञानमिति "सदसदविसेसणाओ" इत्यत्र सप्रपञ्चं व्यवस्थापितमिति, अत्र पुनस्तदुपदर्शनं पिष्टमेव पिनष्टि,अत एव "जइ एवं तेण तुई, अन्नाणी कोवि नत्थि संसारे(री) | मिच्छदिट्ठीणं ते, अन्नाणं नाणमियरेसिं॥३१८॥"[यद्येवं तेन तवाज्ञानी कोऽपि नास्ति संसारे(री)। मिथ्यादृष्टीनां तेज्ञानं ज्ञानमितरेषाम् ]इति प्रतिज्ञाय भाष्यकारोपि 'सदसदविसेसणाओ' इति गाथामेवानेडितवान् ,सम्यग्दृशस्त्वकं वस्तु गृह्णतः सर्वग्रहात् ज्ञानमेव सर्वोऽपि बोधः,तथाहि, इह तावदेकैकं वस्तु समस्तत्रिभुवनमयं अनन्ताऽनन्तानां स्वपर्यायाणामिवान्यव्यावृत्तिरूपाणां परपर्यायाणामपि तत्र वृत्तः,तथापि परे पदार्थाः कथं तत्र वर्तिष्यन्त इति चेत्,अभाववृत्तिद्वारा प्रतियोगिनामपि तवृत्तित्वाद्, अभावस्य तत्र विशेषणत्वलक्षणः साक्षात्सम्बन्धः प्रतियोगिनां तु स्वाभाववृत्तित्वलक्षणः परम्परासम्बन्धः, इत्येव हि विशेषः, एवश्च याथात्म्येनैकवस्तुज्ञाने सर्ववस्तुज्ञानमिति नियमः,सर्ववस्तुज्ञान एव चैकवस्तुज्ञानमिति नियम इति ॥ “जे एगं जाणइ से सव्वं जाणइ, जे सम्बं जाणइ से एगं जाणइ ॥" इत्यागमो व्यवस्थितः,तथा चैकं वस्तु गृह्णतः सर्ववस्तुग्रहो निराबाध एव,अथैवंविधं परिज्ञानं केवलिन एव सम्मवति, नतु सूक्ष्मव्यवहितार्थाग्राहिण छद्मस्थस्येतिचेत्,न,साक्षात्तस्य तथापरिज्ञानाभावेऽपि “जो एगंजापई'इत्याद्यागमप्रामाण्याभ्युगमद्वारा तस्यापि तथा परिज्ञानात् तस्माजाग्रतः स्वपतस्तिष्ठतश्चलतो वा परमगुरुप्रणीतयथोक्तवस्तुस्वरूपाभ्युपगमस्य चेतसि सर्वदेवाविचलनात्
॥ तृतीयः तरङ्गः।। मतिज्ञानप्रसड़े सम्यग्वशां ज्ञान मिथ्यादृशां
चाज्ञानमित्युपपादनम् ॥
P
॥६८॥