________________
स्यादिति चेत्, सत्य, सामान्यविशेषभावेन विभागस्य विवक्षाधीनव्यवस्थितिकत्वाद् बाह्यनिमित्तस्यालोकविषयादिकस्य स्पष्टाव्यक्तमध्यमाल्पमहत्त्वसन्निकर्षप्रकर्षादिभेदेन वैचित्र्यादभ्यन्तरनिमित्तस्य चावरणक्षयोपशमोपयोगोपकरणोन्द्रयरूपस्य शुद्धाशुद्धमतिभेदेन वैचित्र्यान्मतिज्ञानस्य नानात्वसम्भवाद् यथोक्तनिमित्तद्वयस्य केनचिद्रूपेण विशेषे तु मतिज्ञानवतां जीवानामनन्तत्वात्तेषां क्षयोपशमादिभेदेन मतिज्ञानस्यानन्तत्वात् ,आह च-"एवं बज्झन्भन्तर-णिमित्तवइचित्तओमइबहुत्तं ।। किंचिम्मचविसेसेणं,भिज्जमाणं पुणोणतं ॥३११॥"[एवं बाह्याभ्यन्तरनिमित्तवैचित्र्यतो मतिबहुत्वम् ।। किञ्चिन्मात्रविशेषेण, भिद्यमानं पुनरनन्तम् ॥] नन्ववग्रहादयः स्पष्टार्थनिर्भासाभावान ज्ञानं,न च संशयाधनन्तर्भावात्तेषां ज्ञानत्वमनुमानवदिति वाच्यम्,असिद्धेः,तथाहि, सन्दिग्धे ज्ञानसंशयस्तावद् व्यक्त एव ज्ञानप्रामाण्यसंशयमहिम्ना जनितस्यापि विषयसंशयस्यैकोपयोगसन्तानान्तर्भावित्वेन निश्चयस्वरूपपरावर्तकत्वात्सन्दिग्धे च कदाचिनिश्चयाद्विपर्ययोऽपि भवत्येव, दोषमहिम्ना विपरीतविशेषदर्शनेन सत्यकोटिज्ञानप्रतिवन्धेडर्थात्तत्सम्भवात्, अथवेहैव स्पष्टं संशयरूपां गामश्वत्वेनावगाहमानं निश्रितज्ञानं च व्यक्तं विपर्यय एवेति किमितरगवेषणया, नैश्चयिकोऽर्थावग्रहश्च स्पष्टमनध्यवसाय एवानिर्देश्यसामान्यमात्रग्राहित्वादिति ॥ आह च-"इह संसयादणन्त-भावाओ वग्गहादओ नाणं ॥ अणुमाणमिवाह,ण सं-सयाईसब्भावओ तेसुं ।।३१२॥ नणु संदिद्ध संसय-विवजया संसओत्थ चेहा वि।। वच्चासो वा निस्सिअ-मवग्गहोऽणज्झवसि तु ॥३१३।। "[इह संशयाद्यनन्तर्भावादवग्रहादयो ज्ञानम् ॥ अनुमानमिवाऽऽह,न,संशयादिसद्भावतस्तेषु ॥ ननु संदिग्धे संशय-विपर्ययौ संशय इह चेहापि ॥ व्यत्यासो वा निश्रितमवग्रहोऽनध्यवसितं तु] अत्राहुमा यदुक्तम्'सन्दिग्धे संशयविपर्ययाविति। तदयुक्तम्-वस्त्वप्रापकसन्दिग्धत्वस्य तत्राभावात्, अन्यादृशसन्दिग्धत्वमात्रेण चाज्ञानतानापत्ते
CLASSAULACES
मतिज्ञान
प्ररूपण ४प्रसङ्गे तद्भे
दानां निमित्त
भेदाद्विभाग४ वैचित्र्यं, अ
वग्रहादीनां ज्ञानत्वव्यवस्थापनं च ॥