________________
सविवरणं भीज्ञाना
प्रकरणम्॥
ASSAUL
" नाणासइसमूह, बहुं पिहं मुणइ भिन्नजातीयं ॥ बहुविहमणेगमेयं, एक्ककं णिमहुराइ ॥ ३०८॥ [नानाशब्दसमूह, बहु पृथग्जानाति भिन्नजातीयम् ।। बहुविधमनेकमेदमे-कैकं स्निग्धमधुरादिम् ॥] "खिप्पमचिरेण तं चिय, सरूवओजं अणिस्सिअमलिंगं ।। निच्छियमसंसयं जं, धुवमचंतं न य (उ) कयाइ ॥३०९॥" [क्षिप्रमचिरेण तमेव स्वरूपतो यमनिश्रितमलिङ्गम् । निश्चितमसंशयं ध्रुवमत्यन्तं नतु कदाचित् ॥ ] "एत्तो च्चिय पडिवक्खं साहिजा [एतस्मादेव प्रतिपक्षं कथयेद् ]॥३१०॥" निश्रितानिश्रितयोश्चायमपि विशेषः, यद् 'अतस्मिंस्तद्धर्मग्रहो निश्रितं' यथा गव्यश्वत्वग्रह इति, इतरचानिश्रितमिति ॥ आह च"निस्सिए विसेसो वा ॥ परधम्मेहि विमिस्सं, निस्सिअमविणिस्सियं इयरं ॥३१०॥" [निश्रिते विशेषो वा, परधर्मविमिश्र निश्रितमविनिश्रितमितरत् ] स्यादेतत् , बवादयो भेदाः स्पष्टार्थग्राहकष्वपायादिषु सम्भवन्तु, अस्पष्टार्थग्राहिण्यर्थावग्रहे तु कथं तत्सम्भवः । न च नैश्चयिकार्थावग्रहे तदसम्भवेऽपि व्यावहारिकार्थावग्रहे तत्सम्मवान्न दोष इत्युक्तमिति वाच्यम्, तथापि व्यञ्जनावग्रहे सर्वथा तदसम्भवेनोक्तसङ्ख्याव्याघातादिति, मैवं, व्यञ्जनावग्रहादीनामप्यपायादिकारणत्वेन तद्गतबहुत्वादिविशेषस्य योग्यतया व्यञ्जनावग्रहादिष्वपि सत्त्वाद्, 'नद्यविशिष्टात् कारणाद्विशिष्टं कार्यमुत्पत्तुमर्हति' कोद्रवीजादेरपि शालिफलादिप्रसवप्रसङ्गादिति सम्प्रदायः। ननु कार्यगतयावद्धर्माणां कारणगतत्वाभ्युपगम एव सूक्ष्मतारूपयोग्यतया तत्र तत्सत्त्वमभ्युपगमाहे स्यात्, तच्च साङ्ख्यप्रक्रियादृषण एव दक्षितं 'अविशिष्टात् कारणाद्विशिष्टकार्यानुत्पत्तिस्तु' तादृशातिशयव्यतिरेकाद्वा तथाविधसहकारिव्यतिरेकाद्वेत्यन्यदेव, तथा च कथमेतदुक्तमिति चेत्, न, एकसन्तानगामित्वरूपयोग्यतां पुरस्कृत्य बह्वादिविशेषस्य व्यञ्जनावग्रहादिषु सम्भवाभिप्रायेण तदभिधानात् । नन्वेवंविधं वैचित्र्यं मतिज्ञानस्य विवक्षाभेदादनवस्थितमित्यनवस्थितो विभागा
॥ तृतीयः तरङ्गः॥ मतिज्ञानप्ररूपणप्रसङ्गे बहुबहुविधादि| भेदलक्षणसंवादः तत्र चारेकापरिहारादिप्ररूपणं च ॥