________________
R
॥मतिज्ञान| प्ररूपण
प्रसङ्गे बहु| बहुविधादि५ भेदानां लक्ष.
णानि तात्पयंप्रकाशन
AAAAAAECERE
बहुविषयग्राहित्वं 'नानाशब्दा एते' इत्यादिसामान्यज्ञानं हि तदिति, एवम् 'अशेषस्वविषयनिष्ठानेकासाधारणधर्मव्याप्यबहतरधर्मावगाहिज्ञानं बहुविधं, न चैवं बहुविधस्यापि बहुत्वापत्तिस्तल्लक्षणसत्त्वादिति वाच्यम्, उपधेयसङ्करेऽप्युपाध्योरसङ्कराद्विवक्षाद्वैविध्येन तत्र द्विधाव्यवहाराच, अबहुविधत्वं च न बहुविधभिन्नज्ञानत्वं, बहुज्ञानेऽतिव्याप्तेः, किन्त्वव विधमित्यत्र नञः पर्युदासाश्रयणाद् अशेषस्वविषयनिष्ठानेकासाधारणधर्मव्याप्यस्वल्पतरधर्मावगाहित्वं' तदिति, बहुज्ञानेन पृथग्भिन्नजातीयतया गहीतेषु नानाशक्खपणवादिशब्देषु एकैकं शलभेर्यादिशब्दमाश्रित्य स्निग्धत्वमधुरत्वतरुणमध्यमवृद्धपुरुषवाद्यत्वादिबहुविधधर्मवशिष्टचं गृण्हदेव हि बहुविधज्ञानमुदायिते, तत्र स्निग्धमधुरत्वादिस्वल्पधर्मवैशिष्टयज्ञानश्चाबहुविधमिति । क्षिप्रत्वं च नाविलम्बितोत्पत्तिकत्वम्, अक्षिप्रत्वञ्च न विलम्बितोत्पत्तिकत्वं, सामग्रीसनिधानासन्निधानाभ्यां सर्वस्यापि विलम्बिताविलम्बितोत्पत्तिकत्वात्,नापि विमर्शानपेक्षोत्पत्तिकत्वं क्षिप्रत्वम्, अपायस्य सतो विमर्शसव्यपेक्षत्वनियमात, किन्तु 'झटित्युपनतसामग्रीकत्वं' क्षिप्रत्वं, अतादृशत्वं त्वक्षिप्रत्वमिति॥'झटिति सामग्रयुपनिपातनियामकादृष्टजन्यतावच्छेदकजातिविशेषवत्वं' क्षिप्रत्वमित्यपि कश्चित्, 'प्रबलतरसंस्काराधीनझटित्युपस्थितिकविमर्शजन्यत्वं' तत्त्वमित्यन्ये । अनिश्रितं लिङ्गानपेक्षोत्पत्तिकं पताकादिनिश्रया देवकुलादिदर्शनवद्, यन लिङ्गनिश्रामपेक्षते यद्यप्यन्वयव्यतिरेकधर्मान्वेषणरूपामीहामपेक्षमाणः सर्व एवाऽपायो लिङ्गमपेक्षत एव तथाप्यनुमितिसामग्रीसम्पत्तिरूपा लिङ्गनिश्रा यत्र नास्ति तदनिश्रितं, अन्यत्तु निश्रितमिति ध्येयम् ॥ निश्चितत्वमसन्दिग्धविषयकत्वं 'प्रामाण्यसंशयादिरूपविषयसंशयसामग्रथनास्कन्दितत्वम्', तद्विपरीतत्वमनिश्चितत्वं, ध्रुवत्वं च 'सर्वकालमेकजातीयसामग्रीसमुत्पाद्यत्वम्', अतादृशत्वं त्वध्रुवत्वमिति । आह च
| विलम्बिताविलम्बितोतया पक्षप्रत्वं, अतादृशावत्रसंस्काराधीनझटित्युपस्थितिवामपक्षते यमप्यन्वयध्यवित्र नास्ति तदनिश्रित, है
ECEBCALCARRIERICA