________________
निश्रितत्वाश्रुतनिश्रितत्वाभ्यां मतिज्ञानत्वसाक्षाद्व्याप्योपाधिभ्यां द्विघा तद्विभागः सूत्रोक्तो न विशीर्येत, मतिज्ञानत्वेन तयोरभेदेऽपि प्रातिस्विकरूपाभ्यां भेदसम्भवाद, अवग्रहत्वेनाभिन्नानामिव श्रोत्राद्यवग्रहाणाम् ॥ तदुक्तम् - " जह उग्गहाइसामण्णए वि, सोइंदिआइणा भयो | तह ओग्गहाइसामण्णए वि, तमणिस्सिया भिण्णं ॥ ३०५ ॥ " [ यथाऽवग्रहादि - सामान्येऽपि श्रोत्रेन्द्रियादिना भेदः ॥ तथाऽवग्रहादिसामान्येऽपि तदनिश्रितत्वाद् भिन्नम् ॥ ] एवं च श्रुतनिश्रितविभाजकोपाधिमिरौत्पत्तिकीत्वादिभिस्तस्यापि चतुर्द्धा विभागः सङ्गच्छते । तस्मान्मतिज्ञानस्य श्रुतनिश्रितत्वा श्रुतनिश्रितत्वाभ्यां सामान्यतो द्विधाविभागः, श्रुतनिश्रितस्य चाष्टाविंशतिर्भेदैरश्रुतनिश्रितस्य च चतुर्भिर्भेदैर्विशेषविभाग इति विवेकः, अत एव सम्पूर्ण श्रुतनिश्रितं प्ररूप्य 'से किं तं अस्सुअणिस्सिअं ' इत्यादिना ग्रन्थेन सूत्रेऽश्रुतनिश्रितप्ररूपणं प्रत्यज्ञायि, अन्यथा तु प्रागेव तदनिरूपणे न्यूनत्वप्रसङ्गः । आह च- 'अट्ठावीसहमेअं, सुअणिस्सि अमेव केवलं तम्हा || जम्हा तम्मि समचे, पुरस्अणिस्सिअं भणिअं ॥ ३०६॥ [ अष्टाविंशतिभेदं श्रुतनिश्रितमेव केवलं तस्मात् ॥ यस्मात्तस्मिन्समाप्ते, पुनरश्रुतनिश्रितं भणितम् ।। ] ननु मतिज्ञानस्यावग्रहादयश्वत्वार एव भेदा अवग्रहादिभेदास्तु प्रभेदा इति कथमुच्यतेऽष्टाविंशतिर्मतेर्भेदा इति, सत्यम्, प्रभेदानामपि भेदत्वेन विवक्षणादाधिक्येऽपि तावतां भेदानां तावदन्यतरत्वेन मतिज्ञानत्वव्यापक(प्य) त्वाद्विभागवचनस्याव्याघाताच्च सम्प्रदायानुरोधादिकं विनैव हि क्वचिदेतादृशविभागस्याप्रामाणिकत्वमिति, अथवा 'समासेन भेदवस्तूनि' इत्यत्र भेदवस्तुत्वे समासेनेत्यनुकूलं विशेषणं प्रभेदास्तु बहवोऽपि भवन्तीत्यर्थः ॥ १० ॥
अथैवमष्टाविंशतिविधत्वं मतिज्ञानस्योपदर्श्य प्रकारान्तरेण प्रभेदबाहुल्यघटितं बहुभेदत्वमुपदर्शयति —
॥ मतिज्ञान
प्ररूपणप्रस
ङ्गेऽष्टाविंश
तिसंख्या
पूरणाय पर
कल्पितस्य अश्रुतनि
श्रितभेद
क्षेपणस्य
तेषामवग्रहा
दावन्तर्भावप्रदर्शनास्परिहारः ॥