________________
सविवरणं श्रीज्ञाना
DECE
प्रकरणम् ।। ।।६४ ॥
न खलु व्यञ्जनावग्रहार्थावग्रहाववग्रहत्वेन रूपेणैकीकृत्योत्पत्तिक्यादिभेदचतुष्टयप्रक्षेपेण श्रुतनिश्रिताश्रुतनिश्रितसाधारण्येनाष्टाविंशतिभेदपरिगणनं युक्तं, औत्पत्तिक्यादीनां चतुर्णा भेदानामवग्रहादिष्ववान्तर्भावात, तथा हि 'द्वितीयकुर्कुटमन्तरेण मदीयः कुर्कुटो योद्धव्य' इति राज्ञादिष्टे परीक्षापात्रस्य भरतस्यौत्पत्तिकी प्रादुर्बभूव, तत्र दर्याध्मातत्वादयं स्वप्रतिविम्बं दृष्ट्वा युध्येतेत्यवगृह्यते, तत्प्रतिबिम्बं किं तडागपयःपूरादिगतं तदनुगुणीभवति दर्पणादिगतं वेति तदनन्तरमीह्यते, ततः कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वादस्पष्टत्वाच्च जलादिगतं बिम्ब न तथा, स्थिरत्वेन स्पष्टत्वेन चरणघाताद्यन्वीक्षणयोग्यत्वेन च दर्पणगतमेव तत्तथेति निश्चीयते इति । आह च-"केइत्तु वंजणोगह-वज्जे छोद्णमेयम्मि ॥३०१॥ अस्सुअणिस्सिअमेयं, अठ्ठावीसइविहन्ति भासन्ति ॥ जमवग्गहो दुभेओ-वग्गहसामन्नो गहिओ ।। ३०२ ॥" [ केचित्तु व्यञ्जनावग्रहवर्जे क्षिप्त्वैतस्मिन् ॥ अश्रुतनिश्रितमेवमष्टाविंशतिविधमिति भाषन्ते ।। यदवग्रहो विभेदोऽवग्रहसामान्यतो गृहीतः॥]" चउवइरित्ताभावा, जम्हा ण तमोग्गहाइओ भिन्न ॥ तेणोग्गहाइसाम-मओ अतं तग्गयं चेव ॥३०॥"[चतुर्व्यतिरिक्ताभावाद्,यस्मान तदवग्रहादयः॥ भिन्नं तेनावग्रहादिसामान्यतश्चतत्तद्गतमेव ।।] किह पडिकुकुडहीणो, जुज्झे बिबण वग्गहा ईहा।। किं सुसिलिट्ठमधाओ, दप्पणसंकंतबिम्ब ति ॥३०४॥" [कथं प्रतिकुर्कुटहीनो युध्येत बिम्बेनावग्रह ईहा ।। किं सुश्लिष्टमपायो दर्पणसंक्रान्तप्रतिविम्बमिति । ] नन्ववग्रहादिभ्य औत्पत्तिक्यादीनामपि कथञ्चिभेदोऽस्त्येव सर्वथा भेदस्त्ववग्रहोत्तरविशेषाणामपि नास्त्येवावग्रहत्वेन तयोरभेदादिति चेत्, न, अश्रुतनिश्रितविभाजकोपाधीनामवग्रहादिविभाजकोपाध्यव्याप्यत्वेनोत्तरभेदासम्भवात्, औत्पत्तिक्यादिभेदेन मतिज्ञानस्य साक्षाद्विभागे तु न्यूनत्वापातात, अवग्रहायन्तर्भावेन विभागे त्वाधिक्यान् व्याप्यव्याप्योपाधिना साक्षाद्विभागाऽयोगाच्च, अत एव श्रुत
SAN
SAHU
तृतीयस्तर
गतिज्ञानप्ररूपणप्रस
ऽष्टाविंशतिसंख्यापू. ग्णाय परकल्पितस्यौ
त्पत्तिक्या| दिक्षेपणस्य
तेषामवनहादिष्वन्तभर्भावेन परिहरणम् ॥ ॥६४॥
ॐ