________________
ALANKARI
इति युक्तमभ्युगन्तुमिति दिग्॥ तदिदमभिप्रेत्याह-"उप्पलदलसयवेहे ब्व, दुब्विभावतणेण पडिहाई ॥ समयं व सुक्कसक्कुलिदसणे, विसयाणमुवलद्धी ।। २९९ ॥" [ उत्पलदलशतवेध इव दुर्विभावत्वेन प्रतिभाति ।। समयं वा शुष्कशष्कुलीदशने विषयाणामुपलब्धिः॥] अभ्यासस्थलेऽप्ययं पुरुष इति निर्णयेऽयं पुरुष इति प्रयोगे कुत इति कस्यचिदाकाङ्क्षायां करचरणादिमत्त्वादिति प्रयोगात्तदनुगुणेहादेरनुमानात्तत्र तत्सत्त्वं सिद्धथतीत्यप्याहुः ॥ ८॥ अथ 'भेयवत्थू समासेणं' ति नियुक्तिगाथाsवयवेनावग्रहादयो मतिज्ञानस्य सामान्यभेदा इत्युक्तमिति विशेषभेदाः किमधिका अपि सम्भवन्तीति शिष्याकाङ्क्षायामाह-
श्रोत्रादिभेदात् षोढा स्यु-र्यदर्थावग्रहादयः॥ चतुर्दा व्यञ्जनं तेन, स्युरष्टाविंशतिर्भिदाः॥९॥
श्रोत्रादीन्द्रियपञ्चकं नोइन्द्रियश्च मन आश्रित्यार्थावग्रहादयश्चत्वारो भेदाः षड्भिः संगुणिताश्चतुर्विशतिर्भवन्ति तत्र च नयनमनोवर्जेन्द्रियभेदाच्चतुर्विधव्यञ्जनावग्रहप्रक्षेपे पूर्वोक्तभेदचतुष्टयापेक्षया विस्तरेण वक्ष्यमाणभेदापेक्षया च सक्क्षेपेणाष्टाविंशतिः श्रुतनिश्रितमतिज्ञानस्य भेदाः सम्पद्यन्ते । आह च-" सोइंदिआइभेएण, छव्विहावम्गहादओऽभिहिया ॥ ते हुन्ति चउव्वीसं, चउव्विहं वंजणोग्गहणं ॥३००॥ अठ्ठावीसइभेयं एयं सुअणिस्सि समासेणं ति ॥ [ोत्रेन्द्रियादिभेदेन षड्विधा अव ग्रहादयोऽभिहिताः॥ ते भवन्ति चतुर्विंशतिश्चतुर्विध, व्यञ्जनावग्रहणम् ॥ अष्टाविंशतिभेदमेतच्छृतनिश्चितं समासेन ॥] ॥९॥
अथ केचित्तु चतुर्विधव्यञ्जनावग्रहस्थले औत्पत्तिक्यादिभेदेन चतुर्विधमश्रुतनिश्रितं प्रक्षिप्य सामान्यतो मतिज्ञानस्याष्टाविंशतिभेदानुपपादयन्ति तन्मतं पूर्वमनूध पयति- ,
व्यञ्जनावग्रहस्थाने, चतुर्दा श्रुतनिश्रितम् ॥ केचित् क्षिपन्ति तवस-तदन्तर्भूतिसम्भवात् ॥१०॥
॥ मतिज्ञान प्ररूपणप्रस
सामान्यतो विशेषतश्व मतिज्ञानभेदप्रदर्शनं तत्र परारेका परिहारश्च ॥
KARANG