________________
सविवरणं
श्रीज्ञाना
र्णव
प्रकरणम् ।। ॥ ५८ ॥
विषयत्वामैश्चयिकोऽयमुच्यते, ततो नैश्वयि कार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपाय स पुनर्भाविनीमी हामपायं चापेक्ष्योपचरितोऽवग्रहोऽर्थावग्रहः स छद्मस्थव्यवहारिभिर्व्यवह्रियमाणत्वाद्वयावहारिको र्थावग्रहः, उपचारे निमित्तान्तरमाह-एस्सेत्यादि यो भावी योन्यो विशेषस्तदपेक्षया येन कारणेनायमपायोऽपि सन् सामान्यं गृह्णाति, सामान्य ग्राहित्वात्प्रथमनैश्चविकार्थावग्रहवदयमर्थावग्रहः, ततस्सामान्येन शब्दनिश्चयरूपात्प्रथमापायादनन्तरं किमयं शाङ्खः शब्दः शार्ङ्ग वेत्यादिरूपेहा भवति, ततस्तद्विशेषस्य शाङ्खत्वादेरीहितस्य शाङ्ख एवायमित्यादिरूपेणापायश्च निश्चयरूपो भवति, अयमपि च भावितद्विशेषेहामपायञ्चापेक्ष्य सामान्यालम्बनत्वादुपचरितोऽर्थावग्रहः, इयं च सामान्यविशेषापेक्षाऽसम्भवत्स्वाविशेषान्तरान्त्यविशेषं यावद्भवति, अथवा यतो विशेषात्परतः प्रमातुर्विशेषजिज्ञासा निवर्तते तमन्त्यविशेषं यावत् व्यावहारिकार्थावग्रहेहापायार्थं सामान्यविशेषापेक्षा कर्तव्या एवमिहोपचारघटना युज्यते ॥ २८२-२८३-२८४ ॥ उक्तगाथात्रय पर्यवसितमर्थमुपदर्शयति
सव्वत्थेहावाया, निच्छयओ मोतुमाइसामण्णं ॥ संववहारत्थं पुण, सव्वत्थाऽवग्गहोऽवाओ || २८५ ।। आदिसामान्यमव्यक्तं सामान्यमात्रालम्बनमेकसामयिकं ज्ञानं मुक्त्वा सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्वयतः परमार्थत ईहापायौ भवतः, ईहा, पुनरपायः, पुनरीहा, पुनरप्यपाय, इत्येषंक्रमेण यावदन्त्यो विशेषः, न त्वर्थावग्रहः, अर्थावग्रहस्तु सामान्यमात्रालम्बनमेकसामयिकं प्रथमज्ञानमेव, न तदीहाऽपायो वा संव्यवहारार्थं पुनः सर्वत्र यो योऽपायः स स उत्तरेहापायापेक्षयैष्य विशेषापेक्षया चोपचारतोऽर्थावग्रहः ॥ २८५ ॥ यावतारतम्येनोत्तरोत्तरविशेषाकांक्षा प्रवर्तते तावदवग्रहः, तरतम योगाभावे त्वपायएव भवति न तस्यावग्रहत्वमिति दर्शयति
॥ द्वितीयः
तरङ्गः ॥ ( योजित: पाठ: ) मतिनिरूपणे
अर्थावग्रहे
गाथात्रयेण
हादिया
हित्वोपचा
र उपपादि
तः, गाथात्रयैदम्पर्या
र्थव निरूपितः ॥
॥ ५८ ॥