________________
अवग्रहोऽर्थावग्रहो भण्यते ग्रहणेहापायलक्षणत्वेऽपि, क्षेपार्थककिंशब्दसमभिव्याहारात्कथं ग्रहणहापायलक्षणत्वे सत्यपि बहुबहुविधादिविशेषग्राहकत्वेन निश्चयरूपतयाऽपायः समर्थावग्रह इति भण्यते १, ग्रहणहयोः पूर्व भावित्वेन अपायस्य स्वस्वभावत्वेनापायलक्षणत्वं बोध्यम्, स्वस्वरूपस्यापि च लक्षणत्वं भवत्येव । यदाह ॥ “विषामृते स्वरूपेण, लक्ष्येते कलशादिवत् । एवं च स्वस्वभावाभ्यां, व्यज्येते खलसज्जनौ || १ ||" इति || बहुबहुविधादिग्रहणस्योक्तलक्षणत्वबलादपायत्वे कथं शास्त्रान्तरेऽवग्रहादीनां बह्वादिग्रहणमुक्तम् १, सत्यमुक्तम्, किन्तूपचारतः बह्वादिग्राहकस्यापायस्य कारणेष्ववग्रहादिषु योग्यतया कार्यस्वरूपमस्तीति कृत्वोपचारतस्तेऽपि बह्नादिग्राहकाः प्रोच्यन्ते, अथ यदि उक्तन्यायेन त्वयाऽप्युपचारं कृत्वा विशेषग्राहकोऽर्थावग्रह इत्युच्यते स वाङ्मात्रेण तव न युज्यते, " यत्र मुख्यार्थो न घटते तत्र प्रयोजने सति उपचारः प्रवर्तते, " त्वया त्ववग्रहस्य विशेषविषयकत्वोपपादनाय यद्यदुक्तं तदन्यथैव समर्थितमिति प्रयोजनाभावान्नोपचारो युक्तः, यदि मां शिष्यो भूत्वा पृच्छसि त्वं 'कथमुपचारः क्रियमाणो घटत इति १ ततः शृणु समाकर्णय, सोऽपि यथा युज्यते तथा कथयामि ।। २८१ ॥ यथाप्रतिज्ञातमेव सम्पादयन्नाह
सामण्णमेत्तगहणं, नेच्छइओ समयमोग्गहो पढमो ॥ तत्तोऽणंतरमीहिय-वत्धुविसेसस्स जोऽवाओ ||२८२ ॥ सो पुणावाया - sवेक्खाओ वग्गहोत्ति उवयरिओ || एस्सविसेसावेक्खं, सामण्णं गेण्हए जेणं ॥ २८३ ॥ तत्तोऽणतरमीहा, तत्तोऽवाओ य तव्विसेसस्स ।। इय सामण्णविसेसा - वेक्खा जावंतिमो भेओ ।। २८४ ॥ कसमयमाश्रमानो नैश्वयिको निरुपचरितः सामान्यवस्तुमात्र ग्राहकोऽर्थावग्रहः प्रथमः, निश्चयवेदिपरमयोग्यवगम
॥ द्वितीयः
तरङ्गः ॥ ( योजितः
पाठ: ) मतिनिरूपणे अर्थावय
हे प्रेरकवि
शेषारेकां
निरस्य व
हादिया
हित्वोपचा रोपपादनम् ||