SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ॥ द्वितीयः MU एव सामान्यार्थग्राहका, “अस्ति ह्यालोचनाज्ञानम्" इत्याद्यपि तमाश्रित्यैव घटत इति ॥ २७७ ॥ 'तुष्यतु दुर्जन' इति न्यायेन व्यञ्जनावग्रहे सामान्यं गृहीतमित्युपगम्याप्याहगहियं व होउ तहियं, सामण्णं कहमणीहिए तम्मि ।। अत्थावग्गहकाले, विसेसणं एस सद्दो त्ति ॥२७८॥ अथवा भवतु तस्मिन्व्यञ्जनावग्रहे सामान्यं गृहीतम् , तथापि कथमनीहितेऽविमर्शिते तस्मिन्नकस्मादेवार्थावग्रहकाले शब्द एषः इति विशेषणं विशेषज्ञान युक्तम्, न हि निश्चयो झगित्येवेहामन्तरेण युज्यते, तस्मानार्थावग्रहे शब्द इत्यादिविशेषबुद्धियुज्यते ।। २७८ ॥ अर्थावग्रहसमय एवेहापायौ भविष्यत इति मन्यमानम्परम्प्रत्याह अत्यावग्गहसमए, वीसुमसंखेजसमइया दो वि॥तक्का-वगमसहावा, ईहा-ऽवाया कहं जुत्ता ? ॥२७९॥ ____ अर्थावग्रहसम्बन्धिन्येकस्मिन् समये कथमीहापायौ युक्तौ ? इति सम्बन्धः, यतः तर्कावगमस्वभावौ, तर्को विमर्शस्तत्स्वभावेहा, अवगमो निश्चयस्तत्स्वभावोऽपायः, द्वावपि चैतौ पृथगसङ्खयेयसमयौ, तथा च यदिदमर्थावग्रहसमये विशेषज्ञानं त्वयेध्यते सोपायः स चावगमस्वभावो निश्चयस्वरूपः, या च तत्समकालमीहाऽभ्युपगम्यते सा तर्कस्वभावानिश्चयात्मिका, तथा च विरुद्धनिश्चयानिश्चयस्वभावयोरनयो कस्मिन्नवग्रहसमये भावो युक्तः परस्परपरिहारव्यवस्थितत्वात् , इत्येकानुपपत्तिः। तथा, अवग्रहस्यैकस्समयः, अनयोश्च पृथक् पृथक् असंख्येयाः समयाः, एवश्च पृथगसंख्येयसमययोरीहापाययोरेकस्मिन् समये भावोऽपि समयविरोधान सम्भवति, इति द्वितीयानुपपत्तिः ॥ अतोऽत्यन्तासम्बद्धत्वादुपेक्षणीयमेतत् ॥ २७९ ॥ ___सामान्यमात्रग्राहित्वेऽवग्रहस्य ग्रन्थान्तरोक्तक्षिप्रेतरादिभेदासम्भवाद्विशेषग्राहित्व एव तस्य घटनाद्विशेषग्राह्यवग्रह इति निः (योजितः पाठः) दू मतिनिरूपणे परस्यार्थावग्रहसमकालमीहापा ययोः सत्त्वसम्भावना युक्त्या पहस्तयति। SHAIR,
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy