________________
सविवरणं श्रीज्ञाना
र्णवप्रकरणम् ।।
॥ ५६ ॥
अत्थोग्गहो विजं वं-जणोग्गहस्सेव चरमसमयम्मि ॥ पच्छा वि तो न जुत्तं, परिसेसं वंजणं होता || २७५ || अर्थावग्रहोsपि यस्माद्वयञ्जनावग्रहस्यैव चरभसमये भवतीति निर्णीतं प्राग्, तस्मात्पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तं, व्यञ्जनार्थावग्रहान्तरालकालस्यैवाभावेन तदानीं तदुत्पतेर्वक्तुमशक्यत्वात्तदेवं पूर्वपश्चात्कालयोस्तत्सच्वनिषेधे पारिशेष्यान्मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाभ्युपगतो भवेत्, एवं च न कश्विदोषः, नाममात्र एव विवादात् || २७५॥ किञ्च तद्व्यञ्जनकालेऽभ्युपगम्यमानमालोचनं किमर्थस्य व्यञ्जनानां वा, प्रथमपक्षे व्यञ्जनावग्रहत्वाभावान्न व्यञ्जनावग्रहस्य नामान्तरमप्यालोचनमिति, द्वितीयपक्षेऽर्थविषयकत्वाभावादन्वर्थादालोचन संज्ञाभावप्रसङ्ग इत्याहतं च समालोयणम-त्थदरिसणं जइ न वंजणं तो तं ॥ अह वंजणस्स तो कह-मालोयणमत्थ सुण्णस्स ॥ २७६ ॥ तत्समालोचनं यदि सामान्यरूपस्यार्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति व्यञ्जनावग्रहस्य व्यञ्जनसम्बन्धमात्ररूपत्वेनार्थशून्यत्वात्, अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्य सम्बन्धमात्रस्य तत्समालोचनमिष्यते, तर्हि कथमालोचनं कथमालोचकत्वं तस्य घटते, तत्र हेतुः अर्थशून्यस्येति, व्यञ्जन सम्बन्धमात्रान्वितत्वेन सामान्यार्थालोचकत्वानुपपतेरित्यर्थः ॥ २७६ ॥ नन्वेतदालोचनाज्ञानं शास्त्रान्तरे प्रसिद्धमस्ति तत्किं स्वरूपमुररीकृत्येत्यत्र प्रतिविधानं वक्तव्यमित्यत्राह - आलोयणन्ति नामं, हवेज तं वंजणोग्गहस्सेव ॥ होज कहं सामण्ण-ग्गहणं तत्थत्यसुण्णमि ॥ २७७ ॥
तस्मादालोचनमिति यन्नाम् तदन्यत्र निर्गतिकं सत् पारिशेष्यात् व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत्, एवं सति भवतो यदभिमतं सामान्यमात्रग्रहणमालोचनन्तन्न तत्, यतः प्रागुक्तयुक्तिभिः अर्थशून्ये तत्र कथं सामान्यग्रहणं भवेत्, तस्मादर्थावग्रह
॥ द्वितीयः तरनः ॥ (योजित: पाठः) मतिनिरूपणे अर्धावग्रहवि
| घयनिरूपणं तत्र पुनरन्यसम्मतालो
चनापूर्वकत्वं विकल्प्य
परिहृतम् ॥
॥ ५६ ॥