________________
22
सविवरणं भीवाना
वप्रकरणम् ॥
अपि व्यञ्जनावग्रहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम व्यञ्जनावग्रहो न स्यादित्यर्थः, एवञ्च व्यञ्जनावग्रहकथैवोच्छिद्येत, व्यञ्जनमात्रसम्बन्धस्यैव तत्रोक्तत्वात , भवता तु तत्राव्यक्तशब्दरूपार्थग्रहणस्याभिधीयमानत्वात् , अव्यक्तशब्दग्रहणेत्वसावावग्रह एव, एवमपि सूत्रोक्तत्वाद् व्यञ्जनावग्रहत्वे द्वयोरपि व्यञ्जनार्थावग्रहयोरविशेषः स्यात्, मेचकमणिप्रभावात्सङ्करो वा स्यादिति ॥ २६५ ॥ एतावता व्यञ्जनावग्रहे व्यञ्जनसम्बन्धमात्रम्, अर्थावग्रहे त्वव्यक्तशब्दाद्यर्थस्थैव ग्रहणं न तु व्यक्तशब्दाद्यर्थग्रहणमिति प्रतिपादितम् , इदानीमर्थावग्रहे युक्त्यन्तरेण व्यक्तशब्दाद्यर्थसंवेदनं निराकरोति
जेणत्थोग्गहकाले, गहणेहावायसंभवो नत्थि ॥ तो नत्थि सद्दबुद्धी, अहत्यि नावग्गहो नाम ॥२६६ ॥
व्याख्या-येनार्थावग्रहकाले क्रमोत्पित्सुस्वभावानामर्थग्रहणेहापायानां मतिज्ञानभेदानां सम्भवो नास्ति, ततोऽर्थावहे नास्ति शब्द इति विशेषबुद्धिः, तस्या अपायरूपाया अर्थग्रहणेहापूर्वकत्वात् , अथास्त्यसौ तत्र, तर्हि नायमर्थावग्रहः किन्त्वपाय एव स्यात् , तथाप्युपगमे त्वर्थावग्रहेहयोरभाव एव स्यात् ॥ २६६ ॥ अर्थावग्रहे शब्द इति विशेषबुद्धथुपगमे दोषान्तरमाहसामण्णतयण्णविसे-सेहा-वजण-परिग्गहणओ से ॥ अत्याग्गहेगसमओ-वओगवाहुल्लमावण्णं ॥ २६७॥
व्याख्या-अर्थावग्रहैकसमये भवतोपगम्यमाना निश्चयरूपा शब्द इति विशेषबुद्धिरकस्मादनुपजायमानाऽव्यक्तशब्दसामान्यग्रहणशब्दसामान्यविशेषशब्दान्यरूपादिविशेषधर्मालोचनलक्षणेहारूपादिविशेषधर्मपरिवर्जनशन्दविशेषधर्मपरिग्रहणतः श्रोतुरुपजायत इत्यर्थावग्रहकसमये उपयोगबाहुल्यमापनम, न चैतद्युक्तम्, उपयोगयोगपद्याभावप्रतिपादकागमविरोधादिति नार्थावग्रहकाले शब्द इति विशेषबुद्धिः किन्तु शब्द इति प्रज्ञापको भणतीति सिद्धम् ॥२६७।। अथास्मिन्नेवार्थावग्रहे परवाघभिप्राय निराचिकीर्षुराह
(योजितः | पाठः) मतिनिरूपणे अर्थावग्रहविषयनिरू पणे परकता
रेकापरहारादिपरू पणम् ॥
RECERORS
| ॥५४॥
FREE