SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ BAMLODISASRISTMASA किश्च शब्दोऽयमित्यस्य प्रथममेव स्वीकारे तस्यापायरूपत्वेन तत्पूर्वनियतयौरवग्रहहयोरभावप्रसङ्ग इत्यस्य पूर्वमुपदर्शितत्वाच्च न प्रथमं तस्य भावः ॥ २६२ ॥ अथ सूरिरुत्प्रेक्ष्य पराभिप्रायमाशङ्कते__ अहवमई, पुवंचिय, सो गहिओ वंजणोग्गहे तेणं॥जं वंजणोग्गहम्मि वि, भणियं विपणाणमव्वत्तं ॥२६॥ व्याख्या-अथवा परस्यैषा मतिः यदुत सोऽव्यक्तोऽनिर्देश्यादिस्वरूपः शब्दोऽर्थावग्रहात्पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, यस्माद्व्यञ्जनावग्रहेऽपि भवद्भिरव्यक्तं विज्ञानमुक्तम्, ज्ञानस्याव्यक्तता चाव्यक्तविषयग्रहण एवोपपद्यत इति भावः ॥ २६३ ॥ अत्रोत्तरमाहअस्थि तयं अव्वत्तं, न उतं गिण्हइ सयपि सो भणियं ।। न उ अग्गहियम्मि जुज्जइ,सहोत्ति विसेसणंबुद्धी २६४ व्याख्या--अस्ति श्रोतुर्व्यञ्जनावग्रहे, तद्,अव्यक्तं ज्ञानं, न पुनरसौ श्रोताऽतिसौक्ष्म्यात् तत् स्वयमपि गृह्णाति संवेदयते, एतच्च प्रागपि भणितम् “ सुत्त-मत्ताइसुहुमबोहोव्व" इति वचनाव, तथा, "सुचादओ सयं पि य विनाणं नावबुझंति" इति वचनाच, तस्माद्वयञ्जनमात्रस्यैव तत्र ग्रहणं, न शब्दस्य, व्यञ्जनावग्रहत्वान्यथानुपपत्तेरेव, न च सामान्यरूपतयाऽव्यक्ते शब्देऽगृहीतेऽकस्मादेव शब्दः इति विशेषणबुद्धियुज्यते,अनुस्वारस्यालाक्षणिकत्वं,अस्याःप्रथमतो भावेऽवग्रहकालेऽप्यपायप्रसङ्गः।२६४ व्यञ्जनावग्रहेऽव्यक्तशब्दरूपार्थभाने दोषमुपदर्शयति-- अथोत्ति विसयगहणं,जइ तम्मिवि सोनवंजणं नाम ॥ अत्थोग्गहोच्चिय तओ,अविसेसोसंकरोवावि॥२६५॥ व्याख्या-अर्थावग्रहे अर्थ इत्यनेन विषयस्य रूपादिभेदेनानिर्धारितस्याव्यक्तस्य शब्दादेग्रहणममिप्रेतम् , यदि च तस्मि (योजितः पाठः) मतिनिरूपणे | अर्घावग्रहविषयनिरूपणे परकृतारेकापरिहारादिप्ररूपणम् ॥ GREEGA
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy