________________
AUSHASHAN
CaCOCCARRASSAUC5
अण्णे सामण्णग्गह-णमाहु बालस्स जायमेत्तस्स।समयम्मि चेव परिचय-विसयस्स विसेसविन्नाणं॥२६८॥
अन्ये वादिन एवमाहुः-जातमात्रस्य तत्क्षणजातमात्रस्य बालस्य सङ्केतादिविकलत्वेनापरिचितविषयस्य सामान्यमात्रस्याशेषविशेषविमुखस्याव्यक्तस्य सामान्यस्य ग्रहणमालोचनम्, परिचितविषयस्य तु, समय एवाद्यशब्दश्रवणसमय एव, विशेषविज्ञानं जायते, ततस्तमाश्रित्य "तेणं सद्दे ति उग्गहिये" इत्यादि यथाश्रुतमेव व्याख्यायते न कश्चिद्दोष इत्याशयः॥२६८॥अत्रोत्तरमाहतदवत्थमेव तं पुव्व-दोसओ तम्मि चेव वा समये ॥ संखमहराइसुबहुय-विसेसगहणं पसज्जेजा।। २६९॥
जेणत्थोग्गहकाले 'इत्यादि 'सामण्णतयण्णविसेसेहा' इत्यादिग्रन्थोक्तपूर्वदोषतस्तदेतत्परोक्तं, तदवस्थमेव दृषितावस्थमेव, नान्यदृषणाभिधानप्रयासोऽत्राभिधेय इत्याशयः, वा अथवा, तस्मिन्नेव समये शब्दोऽयमित्येकोपयोगसमय एव शङ्खमधुरादिसुबहुविशेषग्रहणं प्रसज्येत, 'न पुण जाणइ के वेस सद्दे' इतिसूत्रावयवस्य सर्वप्रमातृन्प्रत्यविशेषेण प्रवृत्तस्य विरोधेन कस्यचित्प्रथमसमये एव सर्वविशेषविषयकं ग्रहणम्भवत्येवेत्यम्युपगन्तुमशक्यमेव,शब्दरूपमिंग्रहणमन्तरेण प्रकृष्टमतेरप्युत्तरोत्तरबहुधर्मग्रहणत्वासम्भवादिति ॥ २६९ ॥ एकसमये शब्दोऽयमितिविज्ञानमभ्युपगच्छन्तम्प्रति समयविरोधादिदोषान्तरमुपढौकयतिअत्योरगहो न समय,अहवासमओवओगबाहुल्लं॥सव्वविसेसग्गहणं, सव्वा वि महरवग्गहो गिझो ॥२७०॥ एगो वाऽवाओ चिय, अहवा सोऽगहियणीहिए पत्तो । उक्कम-वइक्कमा वा पत्ता धुवमोग्गहाईणं ॥२७१॥ सामण्णं च विसेसो, सो वा सामण्णमुभयमुभयं वा ॥ न य जुत्तं सव्वमियं, सामण्णालंबणं मोत्तुं ॥२७२॥
विशेषविज्ञानस्यासङ्ख्येयसामायिकत्वेनार्थावग्रहे विशेषविज्ञानाभ्युपगमे " उग्गहो एक्कं समयं” इति सिद्धान्तनिर्दिष्टः
॥ द्वितीयः
तरङ्गः॥ (योजितः
पाठः) मतिनिरूपणे
अर्थावग्रहविषयक पर
कतारेका| परिहारादिप्ररूपणम् ॥
SANGEE*