SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ KARNAREGASAX जह सदबुद्धिमत्तय-मवग्गहो तब्विसेसणमवाओ॥ नणु सदो नासद्दो, न य रूवाई विसेसोऽयम् ॥ २५४॥ व्याख्या-यदि शब्दोऽयमिति निश्चयज्ञानमप्यवग्रहः शाल एवायं शब्द इत्यादिविशेषज्ञानमवायो भवताऽङ्गीक्रियते, तर्हि मतिज्ञानस्य प्रथमभेदोऽवग्रहो न स्यादेव, विशेषज्ञानस्यापायरूपतया भवताऽपि स्वीकृतत्वेन शब्दोऽयमिति निश्चयस्य शब्द- स्खलक्षणविशेषग्राहकत्वेनापायत्वस्यैव भावात् , यथा च शब्दत्वस्थावान्तरसामान्यरूपतया शाङ्घत्वादिकं विशेष इति तज्ज्ञानस्यापायता, यतः शासत्वेनाशाङ्खव्यवच्छेद इति कृत्वा शाङ्खत्वं विशेष इति, तथैव महासामान्यस्यावान्तरसामान्यतया शब्दत्वादिकमपि विशेषस्तेनापि नाशब्दो न रूपादिरयमित्येवमन्यविशेषव्यावृत्तिः क्रियत इति तज्ज्ञानस्यापायतैवेत्याह-'नणु' इत्यादि, नन्वित्यक्षमायां, परामन्त्रणे वा, शब्दत्वस्य रूपत्वादिना विरोधात्तनिश्चयेन रूपादिरिति निश्चयस्यावश्यम्भावादित्याह-न च रूपादिरिति रूपादिव्यावृत्तिनिश्चयबलादेव रूपोऽयमिति निश्चयस्ततो नारूपोऽयमिति निश्चयस्ततोऽपायत्वेऽस्य निणीतेऽवग्रहाभावप्रसङ्गः, अवग्रहत्वेन कक्षीकृतस्यापायत्वस्यैव भावादिति भावः ॥ २५४ ॥ स्तोकविशेषग्राहकत्वेन शब्दोऽयमिति निश्चयस्यावग्रहत्वं ततोऽधिकविशेषग्राहकत्वेन शाल एवायमितिनिश्चयस्यापायत्वमित्येवमवग्रहापाययोर्विषयविभागमवलम्ब्यावग्रहसमर्थनं यदि परः कुर्यात्तदा शाङ्खोऽयमितिनिर्णयस्यापि तदुत्तरोत्तरमन्द्रमधुरत्वादितरुण-मध्यम-वृद्ध-स्त्री-पुरुषसमुत्थत्वावगाहिनिर्णयापेक्षया स्तोकविशेषग्राहकत्वेनावग्रहत्वमेव स्यादित्यपायाभावप्रसङ्ग इत्याहथोवमियं नाऽवाओ, संखाइविसेसणमवाओ ति ॥ तब्भेयावेक्खाए, नणु थोवमेवे त्ति नावाओ ॥ २५५॥ अवतरणावेदितार्थेय गाथेति ॥ २५५ ॥ उत्तरज्ञानापेक्षया स्तोकविशेषग्राहिणो निर्णयस्यावग्रहत्वाभ्युपगमे उत्तरोचरज्ञान ARCHASEE (योजितः पाठः) मतिनिरूपणे अर्थावग्रहविषयनिरूपणे पुनःपरकृतयुक्त्यापायाभावापत्तिदोषोपदर्शनम् ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy