________________
EX
सविवरणं श्रीज्ञाना
र्णव
प्रकरणम्।। ॥५२॥
स्यापि तदुत्तरोत्तरज्ञानापेक्षया स्तोकविशेषग्राहकत्वेनावग्रहत्त्वप्राप्तौ विशेषाणामनन्तत्वेन यदपेक्षयोत्तरविशेषो न भवत्येवेत्यस्यासम्भवेनोत्तरोत्तरविशेषनिर्णयेऽपि तदुत्तरोतरविशेषाकासायास्सद्भावतोन्तिमविशेषावगमोऽयमेवेति निर्णयस्य कर्तुमशक्यत्वेन शाङ्खोऽयमित्यादिज्ञानानामपि स्वोत्तरविशेषग्राहिज्ञानापेक्षया स्तोकविशेषग्राहकत्वेनावग्रहत्वेऽपायाभावप्रसङ्गस्सुस्पष्ट एवेत्याहइय सुबहुणावि काले-ण सव्वभेयावहारणमसझं ॥जम्मि हवेज अवाओ, सब्वो चिय उग्गहो नाम ॥२५६॥ ___व्याख्या-इति शब्द उपदर्शनार्थः, यथा शाङ्खोऽयं शब्द इति बुद्धौ शब्दगतविशेषावधारणमिदानीमसाध्यं मन्द्रत्वाधुत्तरोत्तरबहुविशेषसद्भावात् , तेन स्तोकविशेषग्राहित्वेनेयं नापायः किन्त्ववग्रहस्तथा सुबहुनापि कालेन सर्वेणापि पुरुषायुषा शब्दगतमन्द्रत्वाद्युत्तरोत्तराविशेषावधारणं तद्भेदानामनन्तत्वेनासाध्यं, यस्मिन्विशेषावधारणेऽन्यविशेषाकाङ्क्षानिवृत्त्याऽपायत्वम्भवेत, तस्मात्सर्वोऽपि विशेषावगम उत्तरोत्तरापेक्षया स्तोकत्वाद्भवदभिप्रायेणार्थावग्रह एव स्याच्छब्दोऽयमिति निश्चयवनापाय इति ॥२५६॥
अथ शब्द एवायमितिज्ञानमर्थावग्रहतया परसम्मतमपि तदीहापूर्वकमेव ततो नास्यार्थावग्रहत्वसम्भव इत्याहकिं सहो किमसदो-तणीहिए सद्द एव किह जुत्तं ॥ अह पुव्वमीहिऊणं, सहोत्ति मयं तई पुब्वं ॥ २५७ ॥
व्याख्या-किं शब्दोऽयम्, आहोस्वित अशब्दो रूपादिः,इत्येवं पूर्वमनीहितेऽकस्मादेव शब्द एवेति निश्चयज्ञानं कथं युक्तम् , विमर्शपूर्वकस्य तस्य तमन्तरेण न सम्भवः, अन्यव्यावृत्तिग्रहणे सत्येव विशेषरूपेण निश्चयः, अन्यव्यावृत्तिग्रहणश्च न विमर्श विना विमर्शश्वेहेति, अथ निश्चयकालात्पूर्वमीहित्वा शब्द एवायमिति निश्चयज्ञानं भवतोऽप्यभिमतं तहिं निश्चयज्ञानात्पूर्वमीहा भवद्वच| नतोऽपि सिद्धा ॥ २५७ ॥ ततः किमित्यपेक्षायामाह
(योजित
पाठः) मतिनिरूपणे | अर्थावग्रहविषयनिरूपणे शङ्कापरिहारादिप्रदर्शनम् ॥
aamrriramirmirmarwarrior
anAmnesnnained
॥५२॥