________________
व्याख्या- 'जं भणियं ' यदुक्तं नन्दिसूत्रकारेण, किं तत्, इत्याह, व्यञ्जनमापूरितमिति, केन किंवत्, इत्याह- तोयेन जलेन मल्लकं शरावं तद्वदिति, तस्मिन् सूत्रकारभणिते व्यञ्जनं द्रव्यं गृह्यते, इन्द्रियं वा तयोर्वा द्रव्येन्द्रिययोः संयोगः सम्बन्धः, इति सर्वथाऽप्यविरोधः, त्रिष्वपि व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनमित्यस्या व्युत्पत्तेर्घटनात् ॥ २५० ॥
व्यञ्जनशब्दवाच्येषु त्रिष्वपि द्रव्यादिषु प्रत्येकमापूरितत्वे विशेषमुपदर्शयति
दव्वं माणं पूरिय - मिंदियमापूरियं तहा दोन्हं ॥ अवरोप्परसंसग्गो, जया तया गिण्हइ तमत्थं ॥ २५१ ॥ व्याख्या - दव्वंति, द्रव्यव्यञ्जनेऽधिकृते 'जाहे तं वंजणं पूरियं होइ' इत्यस्यार्थः शब्दादिद्रव्यस्य प्रमाणं प्रतिसमयप्रवेशेन प्रभूतीकृतत्वात् स्वप्रमाणमानीतं प्रकर्षमुपनीतं स्वग्राहकज्ञानोत्पादे समर्थीकृतमिति यावत्, अथेन्द्रियमितीन्द्रियव्यञ्जनेऽधिकृते तु तदर्थः तदा पूरितं व्याप्तं भृतं वासितमित्यर्थः, द्वयोः द्रव्येन्द्रिययोः सम्बन्धलक्षणव्यञ्जनेऽधिकृते पुनः, तयोः परस्परं सम्यक्सम्बन्ध इति तदर्थः, द्रव्येन्द्रियसम्बन्धलक्षणव्यञ्जनपक्षे द्रव्येन्द्रिययोः परस्परमतीवसंयुक्तता वा अङ्गाङ्गीभावेन परिणाम एव सम्बन्धलक्षण व्यञ्जन - स्यापूरणम्, यदोक्तप्रकारत्रयेण त्रिविधमपि व्यञ्जनमापूरितं भवति, तदा तं नामजात्यादिकल्पनारहितं विवक्षितं शब्दाद्यर्थं गृह्णाति, एतच्च 'ताहे हुं ति करेइ' इत्यस्य व्याख्यानं, अयमेवार्थावग्रह एकसामयिकः, व्यञ्जनात्रग्रहस्तु द्रव्यप्रवेशादिरूपत्वादान्तर्मौहूर्तिकः इति ।। २५१ ॥ अर्थावग्रहो यादृशमर्थं गृह्णाति तमुपदर्शयति
सामन्नमणिद्देसं, सरूवनामाइकप्पणारहियं ॥ जइ एवं जं तेणं, गहिये सद्देत्ति तं किह णु । ॥ २५२ ॥ व्याख्या - सामान्यविशेषात्मकस्य वस्तुनो रूपादेः स्वरूपनामजातिगुणक्रिया द्रव्य कल्पनारहितत्वेन शब्दानभिलाप्यं सामा
(योजित: पाठः) मतिनिरूपणे व्यञ्जनावमहम
स्तावे
नन्दसूत्रोतपाठपठित
व्यञ्जन शब्दस्य भाष्यकार
व्याख्यानेन
द्रव्येन्द्रियस
|म्बन्धरूपत्रि
विधवाच्यत्व
प्रदर्शनम् ॥