SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना - प्रकरणम् ।। ॥ ५० ॥ मनसोः प्राप्यकारित्वमभ्युपगच्छतो मते चक्षुषाऽतिसम्प्राप्ताज्ञ्जनादेः किमिति न ग्रहः मनसैकदैव सम्प्राप्तानां घटपटादीनां किमिति न ग्रहो मेर्वादेरतिव्यवहितस्यापि ग्राहकस्य मनसो न कुत्राप्यसम्प्राप्तिरिति दोषोद्धाराय कर्मोदयस्य स्वभावस्य वा प्रतिनियतग्रहणे नियामकत्वं परेण तदुभयप्राप्यकारित्ववादिना वाच्यं तन्नयनस्याप्राप्यकारित्ववादिनाऽपि वक्तुं शक्यमेवेति दोष परिहारयोस्समत्वेन नात्र वादिना यत्नो विधेय इति भावः ॥ २४८ ॥ ततश्च यद्वयवस्थितं तदाहसामत्थाभावाओ, मणोव्व विसयपरओ न गिव्हेइ ॥ कम्मक्खओवसमओ, साणुग्गहओ य सामत्थम् ॥२४९॥ व्याख्या-चक्षुः सिद्धान्तनिर्दिष्टनियतविषयपरिमाणात्परतो न गृह्णातीति प्रतिज्ञा, सामर्थ्याभावादिति हेतु:, मनोवदिति दृष्टान्तः, तदावरणकर्मक्षयोपशमात्स्वानुग्रहतश्च सामर्थ्यं येष्त्रप्राप्तेष्वर्थेषु चक्षुषस्समस्ति तेषामप्राप्तानामपि चक्षुषा ग्रहणम्, येषु चाप्राप्तेषूक्तसामर्थ्यं नास्ति तेषां चक्षुषा न ग्रहणमित्यर्थापच्या लभ्यते, अनुग्रहथ चक्षुषो रूपालोकमनस्कारादिसामग्रीतो भवति, तस्माद्व्यवस्थितमप्राप्यकारित्वं नयनमनसोः, स्पर्शनादीनां चतुर्णामेवेन्द्रियाणां व्यञ्जनावग्रह इति तस्य चतुर्विधत्वम् ॥ २४९ ॥ " व्यञ्जनावग्रहस्य स्वरूपं नन्द्यध्ययनागमसूत्रे प्रतिबोधक मल्लको दाहरणाभ्यां "वंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिŚतेण मल्लगदिद्वंतेण य ” इत्यारभ्य " जाहे तं वंजणं पूरियं होइ, ताहे हुं ति करेइ, नो चेव णं जाणाइ के वेस सद्दाइ ' इत्यन्तग्रन्थेन प्रतिपादितं, तदेवमस्य व्यञ्जनावग्रहस्वरूपप्रतिपादकस्य नन्दि सूत्रस्य शेषं प्रायः सुगममिति मन्यमानो भाष्यकार: 'जाहे तं वंजणं पूरियं होइ " इत्येतद्व्याचिख्यासुराह— तोरण मल्लगं पिव, वंजणमापूरियं तिजं भणियं ॥ तं दव्वामंदियं वा, तस्संजोगो व न विरुद्धम् ॥ २५० ॥ मतिनिरूपणे व्यञ्जनावग्र • हमस्तावे मनोविषयनियमत्वे पराभिप्रेतहेत्वोनेंत्रेपि स मत्वेन परदो परिहारः, नयनमनसो विना व्यज्ज नावग्रहचतु विधत्वनि टङ्कनम् ॥ ॥ ५० ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy