________________
सविवरणं श्रीज्ञाना-16
ISGARIES
व
प्रकरणम् ॥ ॥४८
गृह्णीयात्, न चैवम्, यतो मनसः प्रथमसमय एवार्थावग्रहो जायते न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, क्षयोपशमापाटवेन श्रोत्रादीन्द्रियस्य प्रथमं नार्थोपलन्धिरिति युज्यते तस्य व्यञ्जनावग्रहः, चक्षुरिन्द्रियस्येव पटुक्षयोपशमत्वान्मनसोऑनुपलब्धकालाभावेन प्रथममर्थावग्रह एव जायत इति न व्यञ्जनावग्रहस्यावसरः, अत्र चानुमानप्रकार इत्थम्, इह यस्य ज्ञेयसम्बन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहः, यथा चक्षुषस्तथा मनसः, तस्मान तस्य व्यजनावग्रहः, व्यतिरेके तु श्रोत्रादिदृष्टान्तस्तस्य ज्ञेयसम्बन्धेर्थानुपलम्भकालसम्भवाद, तत्र व्यञ्जनावग्रहाभ्युपगमः, एवञ्च परोक्तपक्षद्वयस्याप्यघटमानत्वान्मनसो व्यञ्जनावग्रहासम्भवमुपसंहरति । 'न बंजणं तम्हचि, ' तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहः ॥२४१॥
प्रथमसमय एव मनसोऽर्थग्रहणम्भवतीत्यत्रोपपत्तिमुपदर्शयनिसमए समए गिण्हइ, दव्वाइं जेण मुणइ य तमत्थं ॥जं चिंदिओवओगे वि, वंजणाऽवग्गहेतीते ॥२४२॥ होइ मणोवावारो, पढमाओ चेव तेण समयाओ॥ होइ तदत्यग्गहणं, तदण्णहा न प्पवत्तेजा ॥२४३॥ ____ व्याख्या-येन कारणेन कस्यचिदर्थस्य चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृहाति मनोद्रव्यग्रहणशक्तिसम्पनो जीवः चिन्तनीयञ्च तथा जानाति, एतत्प्रथमगाथापूर्वार्थेन सह द्वितीयगाथाद्वितीयतृतीयचरणार्थी सम्बन्धनीयौ । ततश्च तेन कारणेन प्रथमसमयादेव भवति चिन्तनीयार्थस्य ब्रहणमित्यर्थः।अर्थानुपलब्धिकालस्त्वेकोऽपि समयो नास्ति, कुन तस्य व्यञ्जनावग्रहइति भावः । नन्विन्द्रियव्यापाररहितस्य जीवस्य मनोमात्रेणैवार्थान्पर्यालोचयतो मा भवतु मनसो व्यञ्जनावग्रहः श्रोत्रादीन्द्रियेणार्थान् गृहतस्तु जीवस्य मनोऽपि तत्र व्यापिपर्तीति तत्र प्रथममनुपलब्धिकालसम्मवाद् व्यजनावग्रहः किन स्यादित्यत आह,
(योजितः
पाठः) मतिनिरूपणे
व्यअनाव| ग्रहप्रस्तावे पटुक्षयोपश| मत्वाच्चक्षुष इव मनसा प्रथमत एवा
थग्राहकत्वेन व्य
नावग्रहाभाव एवेति | प्रदर्शनम्॥ ॥४८॥
RSAs