________________
AKKACCORRECECONDS
ज्ञेयेन स्वकायस्थितहृदयादिना सम्बन्धेऽपि तस्य मनसो व्यञ्जनावग्रहो युक्त उक्तप्रकारेणेत्यर्थः ॥ २३९ ॥
उक्तप्रकाराभ्यां परेण मनसो व्यञ्जनावग्रहे समर्थिते तत्र प्रथमपक्षे प्रतिविधानमाचार्य आहगिझस्स बंजणाणं, जं गहणं वंजणोग्गहो स मओ ॥ गहणं मणो न गिज्झं, को भागो वंजणे तस्स ॥२४॥
व्याख्या-स्वपक्षपरपक्षरागद्वेषग्रहाविष्टचित्तेन परेण 'विसयमसंपत्स्स वि' इत्यादि यदुक्तं तदसम्बद्धमेव, यतः श्रोत्रादीन्द्रियचतुष्टयग्राह्यस्य शब्दादेस्सम्बन्धिनां व्यञ्जनानां तद्पपरिणतद्रव्याणां यदुपादानलक्षणं ग्रहणं स व्यञ्जनावग्रहोऽस्माकं सम्मत इति परो जानात्येव, एवञ्च चिन्ताद्रव्यरूपं मनो यदि ग्राह्यं स्यात्स्यात्तदा तद्व्यञ्जनं मनसो न त्वेवं, किन्तु अर्थपरिच्छेदकरणस्वरूप ग्रहणं मनो न ग्राह्यं, अतः को भागः कोऽवसरस्तस्य करणभृतस्य मनोद्रव्यराशेर्व्यञ्जनावग्रहेऽधिकृते, न कोऽपीत्यर्थः ॥२४०॥'देहादणिग्गयस्स वि ' इत्यादिना मनसो व्यञ्जनावग्रहप्रसाधनायोक्तो द्वितीयपक्षोऽपि न सङ्गतः, स्वस्य स्वदेशेन सम्बन्धसर्वस्यापि, स्वदेशेन सहासम्बन्धे वस्तुनोऽसत्त्वमापद्येत, न च तावन्मात्रेण मनःप्राप्यकार्युपगन्तुं शक्यम, तथा सति ज्ञानमात्रस्य स्वदेशात्मसम्बद्धस्य प्राप्यकारिता प्रसज्येत, तस्मात्स्वदेशं, परित्यज्य बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वचिन्ता फलवती, बाह्यार्थश्च मनसाप्राप्त एव गृह्यत इति तस्याप्राप्यकारित्वनियमे न व्यभिचारः, मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारित्वाभ्युपगमेऽपि वा न व्यञ्जनावग्रहसम्भव इति दर्शयनाहतइसचिन्तणे होज, वंजणं जइ तओन समयम्मि । पढमे चेव तमत्थं, गेण्हेव न वंजणं तम्हा ॥२४१॥
व्या० स्वकीयहृदयादिदेशचिन्तने सति भवेन्मनसो व्यञ्जनावग्रहः यदि प्रथमसमय एव तं स्वकीयहृदयादिकमर्थ न
(योजितः
पाठः) मतिनिरूपणे व्यञ्जनावग्रहप्रस्तावे मनसोप्राप्यकारित्वेसिद्धेप्यभि
निवेशतो व्यजनावग्रमहत्वस्थापनादय परकतारेकायाः परिहरणम् ॥