________________
सविवरणं भीज्ञाना
र्णव
प्रकरणम् ॥ ॥ ४७ ॥
तदा तथैवापरस्याप्यग्रहणमिति, सर्वाग्रहणं वा स्यादित्येवंरूपा, न, यद् यस्मात्कारणात्, दृष्टस्यप्रतिनियतार्थग्रहणस्यानुपपत्तौ सत्यां तदुपपत्तये, अदृष्टं तत्कारणतया क्षयोपशमविशेषाख्यं, परिकल्प्यते, न चैवं प्राप्यकारित्वपक्षेऽप्येवमस्त्वितिवाच्यम्, अनेकप्राप्तिकल्पनेऽपि क्षयोपशम विशेषस्य तत्कारणतयाऽवश्यं कल्पनीयत्वेनिष्फलस्य गौरवस्यतत्कल्पनापरिपन्थिनः सद्भावाद्, अप्राप्यकारित्वे तु प्राप्तकल्पनाल्लाघवस्यानुकूलत्वादिति बोध्यम् ||४०|| मनसो विषयप्राप्त्यभावेऽपि कदाग्रहावेशाद्व्यञ्जनावग्रहं प्रतिपादयन्पर आह“ विसयमसंपत्तस्स वि, संविज्जह वंजणोग्गहो मणसो ॥ जमसंखेज्ज समइओ, उवओगो जं च सव्वेसु ॥ २३७॥ समएस मणोदव्वाई, गिण्हए वंजणं च दव्वाई ॥ भणियं संबंधो वा तेण तयं जुज्जए मणसो ॥ २३८ ॥
"
व्याख्या - मेर्वादिविषयमप्राप्य गृह्णतोऽपि मनसो व्यञ्जनावग्रहो युज्यते, यस्मात् 'च्यवमानो न जानाति' इत्यादिवचनात्सर्वोऽपि छद्मस्थोपयोगोऽसङ्ख्येयसमयो निर्दिष्टः समये, न त्वेकद्वयादिसमयकः, यस्माच्च तेषूपयोगसम्बन्धिष्वसङ्ख्येय समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवगणाभ्यो गृह्णाति जीवः, द्रव्याणि च तत्सम्बन्धो वा प्रागत्रैव भवद्भिर्व्यञ्जनमुक्तं, तेन तत् द्रव्यं तत्सम्बन्धो वा व्यन्जनावग्रहो मनसो युज्यते । श्रोत्रादेरप्यसङ्ख्येयसमयगृह्यमाणशब्दादिपरिणतद्रव्याणि न्धो वा व्यञ्जनावग्रहः, स मनसोऽषि समान इति तथा किं नेष्यत इति पराभिप्रायः ।। २३७ - २३८ ।।
तत्सम्ब
विषयाप्राप्तावपि मनसो व्यञ्जनावग्रहमवस्थाप्येदानीं तत्प्राप्त्या तं समर्थयन्नाह
देहादणिग्गस्स वि, सकायहिययाइयं विचिंतयओ ॥ नेयस्स वि संबंधे, वंजणमेयं पि से जुतं ॥ २३९ ॥ व्याख्या - देहादनिर्गतस्यापि तत एव मेर्वाद्यर्थमगतस्यापि स्वकायहृदयादिकमतिसािन्नहितत्वात्सम्बद्धं चिन्तयतो मनसो
( योजित:
पाठ: ) मतिनिरूपणे
व्यञ्जनाव
ग्रहप्रस्तावे
मनसोऽ प्रा
प्यकारित्वे
सिद्धेऽपि व्य
अनावग्रह
स्वस्थाप
नायाभिनिबेशिशङ्का
प्रदर्शनम् ॥
॥ ४७ ॥