________________
BRUARKARKECICK
दृष्टार्थस्य कथं स्वप्ने भानमिति चेद् , एतन्महिम्नेति संक्षेपः॥ ३८॥ ननुस्त्यानर्द्धिनिद्रोदये द्विरदरदनोत्पाटनादिप्रवृत्तमनस: प्राप्यकारित्वव्यञ्जनावग्रही सेत्स्यत इत्यत आह--
स्त्यानधों श्रवणादीनां, व्यञ्जनावग्रहादयः॥ भवेयुन तु चित्तस्य, स्वप्नोऽयमिति जानतः॥३९॥९७॥
स्त्यानर्षिनिद्रोदये हि प्रेक्षणकरङ्गभूम्यादौ गीतादिकं भवतः योन्द्रियादीनामेवावग्रहो भवति, न तु नयनमनसो,तत्प्राप्यकारिताया युक्तिरिक्तत्वात्, नन्वेवं बाह्यन्द्रियव्यापारे प्रबुद्धस्य स्वप्नोऽयमिति ज्ञानं कथमिति चेत्, गाढनिद्रोदयपारवश्येन तथाभिमानाद्, आह च-"सिमिणमिव मन्नमाणस्स, थीणगिद्धिस्स वंजणोग्गहया । होज व ण उसा मणसो, सा खलु सोइंदिआईणं ॥ ॥ २३४ ॥" [स्वममिव मन्यमानस्य, स्त्यानगृद्धेळञ्जनावग्रहता । भवेद्वा न तु सा मनसः सा खलु श्रोत्रेन्द्रियादीनाम्] ननु निद्रोदये कथमीशी विशिष्टचेष्टेति चेत्, तदुदयसमये चक्रिबलार्द्धबलसम्पत्तेः ॥ श्रूयन्ते यत्रोदाहरणानि-ग्रामे वचन कोऽप्यासी-स्कौटुम्बिकशिरोमणिः॥ यस्य जिहवा पलपास-रसव्यसनतत्परा॥१॥ मांसानि खानिर्दोषाणां, यत्र यत्र स पश्यति ॥ और्वानल इवाम्भोधौ, चेतस्तत्रास्य धावति ॥२॥ एष धर्मेधसां दाहे, वन्यदावाग्निरन्यदा ॥ आनीयोपशमं वाग्भि-मेघधाराभिरञ्जसा ॥३॥ दुर्नीतिदलनान्वीक्षा, दीक्षां दत्त्वा महात्मभिः।।स्थविरैः स्थिरतां नीतो, जगद्गीतयशोभरैः ॥४॥ तेनान्यदा विहरता, ग्रामे वचन घातितः। सौनिकैर्महिषो दृष्टो, महिषध्वजमन्दिरे ॥५॥ अभिलाषस्तदा तस्य, तदीयामिषभक्षणे ॥ प्रावतत हहा कर्म-स्थितिर्हि दुरतिक्रमा ॥६॥न न्यवर्चत तस्यासौ, व्यासङ्गेऽपि क्रियान्तरे ॥ कान्तासगं विना याति, न नाम विरहज्वरः ॥७॥ तेनैव चाभिलाषेण, स्वापमाप दुराशयः ॥ तस्य तत्सहकारेण, स्त्यानर्द्धिरुदियाय च ॥८॥ महिषध्वजवत्
मतिनिरूपणे व्यञ्जनावग्रह
प्रस्तावे त्यानधिनिद्राप्रकारेण मनसः प्राप्यकारित्वव्यञ्जनावग्रहस्थापक्रमतखण्डनम् ॥
ASS