SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना र्णव प्रकरणम् ॥ ॥ ४४ ॥ % जन्यत्वमिति चेत्, न, तीव्रवेदाध्यवसायजन कबहु तरमनोद्रव्य प्रेरितजीवप्रयत्नादेव तदुपपतेर्दृष्टार्थस्य बाधितुमशक्यत्वात् ॥३७॥ ननु भाविराज्यादिस्वप्नस्य सत्यत्वदर्शनान्मनसो मेरुप्राप्तिस्वप्नोऽपि कथं न तथेत्यत आह स्वप्नोऽपि न मृषा कश्चि न तु सर्व इतिस्थितिः ॥ तेन न प्राप्यकारित्वं, मनसः स समर्थयेत् ॥३८॥९६॥ नहि भाविराज्यादि सूचक स्वप्नस्यार्थक्रियाकारित्वेन प्रामाण्यमिति मेरुगमनादिस्वप्नस्यापि तथात्वं स्यात् अर्थक्रियाकारित्वाभावेन तस्य स्फुटमेवाप्रामाण्यान ह्येकजातीयस्य कस्यचित्प्रामाण्ये सर्वस्य तथात्वं नाम, घटादिचाक्षुषस्य प्रामाण्ये रङ्गे रजत बुद्धेरपि तथात्वप्रसङ्गाद्, आह च - "नणु सिमिणओ वि कोइ, सच्चफलो फलइ जो जहादिहो । नणु सिमिम्मि णिसिद्धं, किरिया किरियाफलाई च ॥२३१॥" [ननु स्वप्नोऽपि कश्चित्सत्यफलः, फलति यो यथादृष्टः । ननु स्वप्ने निषिद्धं, क्रिया क्रियाफलानि च ] "जं पुण विन्नाणं, तप्फलं च सिमिणे विबुद्धमेत्तस्स ॥ सिमिणयणिमित्तभावं, फलं च तं को णिवारे ॥ २३२ ॥ |” [यत्पुनर्विज्ञानं, तत्फलं च स्वप्ने विबुद्धमात्रस्य । स्वप्ननिमित्तभावं, फलं च तत्को निवारयति ?] ननु स्वमः सर्वेऽप्यप्रमैव निद्रादोषजनितत्वाद्, भा विराज्य स्वप्नादीनां तु देहस्फुरणसहसोदितवद् भाव्यर्थानुमापकत्वादेव प्रामाण्यं तत्तच्छाखात्तथाविधव्याप्तिग्रहात्, तदुक्तम्" देहप्फुरणं सहसोइअं च, सिमिणो अ काइआईणि ॥ सगयाई निमित्चाई, सुभासुभफलं णिवेदंति || २३३ || "त्ति० [ देहस्फुरणं सहसोदितं च, स्वप्नश्च कायिकादीनि ॥ स्वगतानि निमित्तानि, शुभाशुभफलं निवेदयन्ति ] कथं कश्चिदेव स्वप्नः प्रमा नतु सर्व इत्यभिधीयत इति चेत्, न, 'आरोपे सति निमित्तानुसरणं नतु निमित्तमस्तीत्यारोप' इति न्यायेन क्वचिदेव कस्यचिद्दोषत्वकल्पनात्, न च तदिति स्थले इदमिति भानात्तस्याप्रमात्वं, स्मृतिप्रामाण्यव्यवस्थापितत्वात्, सर्वत्र स्वप्ने तथाभानाभावाद्, मतिनिरूपणे व्यञ्जनावग्रहप्रस्तावे - स्वप्रदष्टान्तेन मनसः प्रा प्यकारित्व व्यवस्था पयितुर्मत खण्डनम् ॥ ॥ ४४ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy