________________
क्षाविलयप्रसङ्गे बुभ्रुक्षाक्षामकुक्षेर्निद्रायामेव प्रवृत्तिः स्यान्न तु पाकादाविति विपरीतमेतद्, आह च - "दीसन्ति कासइ फुड, हरिसविसायादओ विबुद्धस्स || सिमिणाणुभूअसुह- दुक्ख - रागदे । साइलिंगा ॥ २२६॥”[दृश्यन्ते कस्यचित्स्फुटं हर्षविषादादयो विबुद्धस्य ।। स्वनानुभूतसुखदुःख - रागद्वेषादिलिङ्गानि ] "न सिमिणविन्नाणाओ, हरिसविसायादओ विरुज्झति । किरियाफलं तु तित्ती - मदवहबंधादओ णत्थि ॥ २२७॥ |” [न स्वमविज्ञानाद् हर्षविषादादयो विरुध्यन्ते ॥ क्रियाफलं तु तृप्तिमदवधबन्धादयो न सन्ति ] ननु कान्तादर्शनजन्ये सुखे तद्दर्शनमात्रं हेतुरस्तु, मोदकभक्षणादिजन्यं तु सुखं कथं स्वमे मोदकज्ञानमात्रादितिचेत, न, अनन्यगत्या स्वप्नजनितेष्टप्राप्त्यभिमानस्यापि विलक्षण सुखहेतुत्वस्वीकारात् प्रबुद्धस्य तु स्वमशुभत्वज्ञानस्य तथात्वादिति दिग् ॥ ननु स्वप्नेऽपि कामिनीसुरतादिक्रियाफलं व्यञ्जनविसर्गादि प्रबोधावस्थायामपि साक्षात् दृश्यत एव तत्कथं स्वप्ने क्रियाफलं नास्तीत्युच्यत इति चेत्, न, जाग्रतोऽपि तीव्रमोहाध्यवसायेन व्यञ्जनविसर्गदर्शनात्, स्वप्नेऽपि तस्य तद्धेतुकत्वेन क्रियाफलत्वासिद्धेः, अन्यथा स्वप्नविषयीकृतकामिनीनां गर्भाधानादिप्रसङ्गाद्, आहच - "सिमिणे वि सुरयसंगम-किरियासंजणि अर्वजण विसग्गो । । पडिबुद्धस्स वि कस्सइ, दीसह सिमिणाणुभ्रूअफलं ॥ २२८ ॥ | [ स्वप्नोऽपि सुरतसङ्गम - क्रियासञ्जनितव्यञ्जनविसर्गः ॥ प्रतिबुद्धस्यापि कस्यचित्, दृश्यते स्वप्नानुभूतफलं ] "सो अज्झवसा कओ, जागरओपि जह तिव्वमोहस्स || तिव्वज्झवसाणाओ, होइ विसग्गो तहा सुमिणे ॥२२९॥ [ सोऽध्यवसान कृतो जाग्रतोऽपि यथा तीव्रमोहस्य || तीव्राध्यवसानाद् भवति विसर्गस्तथा स्वप्ने] "सुरयपडिवत्तिरहसुह-गन्भाहाणाइ इहरहा होज्जा ॥ सुमिणसमागयजुवईए, ण य जओ ताई तो विफला ॥ २३० ॥” [सुरतप्रतिपत्तिरतिसुखगर्भाधानादीतरथा भवेत् ॥ स्वप्नसमागतयुवतेः न च यतस्तान्यतो विफला ] ननु व्यन्जनविसर्गस्य क्रियापूर्वकत्वदर्शनात्कथमध्यवसान
मतिनिरूपणे व्यञ्जनावग्रह प्रस्तावे -
स्वप्नदृष्टान्तेन
मनसः प्राप्यकारित्व
व्यवस्था
पयितुर्मत
खण्डनम् ॥