SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ साविवरणं श्रीज्ञाना प्रकरणम् ॥ ४ ॥४५॥ क्रूर-स्ततश्चोत्थाय शक्तिमान्॥ महिषामिषपिण्डार्थी,ययौ महिषमण्डलम्॥९॥तत्र व्यापाद्य महिषं,मांसलंमांसलम्पटः।मांस भुक्त्वा न्यदानीय, चिक्षेपोपाश्रयोपरि ॥१०॥ पुनः सुष्वाप पापा स, प्रत्यूषे च प्रबुद्धवान् ॥ स्वप्नोऽयमिति विज्ञाय, तज्जगाद गुरोः पुरः॥११॥ उपाश्रयोपरि प्रैक्षि, साधुभिश्च तदा पलम् ।। पाटलं परिपाकेण, स्त्यानगृद्धिलताफलम् ॥१२॥ न्यवेदि तच्च गुरवेतेन लिङ्गेन तैस्तदा ॥ धूमेनाग्निरिवाज्ञायि, तस्य स्त्यानर्द्धिसम्भवः ॥१२॥ सङ्घन स द्रुतं लिङ्ग-मपहत्य विसर्जितः ॥ भस्मच्छन्नोऽपि नैवाग्निः, स्थाप्यते केलिवेश्मनि ॥१४॥ इति स्त्यानर्युदये प्रथमं मांसोदाहरणम्।। अथ द्वितीयं मोदकोदाहरणमुच्यते-भिक्षार्थ पर्यटन प्रामे, कोऽपि साधुळलोकत ।। भाजने स्थापितान् दिव्यान्, मोदकान् मन्दिरे क्वचित् ॥ १॥ सुरभिस्निग्धमधुरा-नुग्रीव तानिमालयन् ॥ स पाप नहि साधनां, याञ्चापूर्वः प्रतिग्रहः ॥२॥ विच्छेदं न जगामास्याभिलाषस्तु तदाश्रयः ॥ अविच्छेदेन सुप्तस्य, स्त्यानद्धिरुदियाय च ॥ ३ ॥ रजन्यां तद्गृहं गत्ला, महाद्विप इवाऽथ सः।। अभाक्षीत्तकपाटानि, वृक्षाणीव मदोद्धतः ॥४॥ गत्वान्तः कवलीकृत्य, स्वैरं मोदकमण्डली ॥ शेषं पतद्ग्रहे क्षिप्त्वो-पाश्रवं तूर्णमाययौ ॥५॥ स्थाने निधाय सुष्वाप, तं पतद्ग्रहकं पुनः ॥ स्वप्नं ज्ञात्वा बभाषेऽथ, प्रबुद्धस्स गुरोः पुरः॥६॥ भाजनप्रत्युपेक्षायाः, समये तत्प्रतिलेखने ।। ददृशे मोदकश्रेणी,स्त्यानद्धिरिव पिण्डिता।।७।गुर्वादिभिस्ततो ज्ञात्वा,तस्य स्त्यानर्द्धिदुष्टताम् ॥लिङ्गं पाराश्चि-| के दवा, तथैवायं विसर्जितः ॥८॥ उक्तं द्वितीयम्।। अथ तृतीयं दन्तोदाहरणमुच्यते॥एकः साधुर्दिवा कश्चित, खदितः करिणारिणा, प्रचण्डकरदण्डेन, नीरदेनेव गर्जता ॥१॥ पलाय स ततः कष्टा-न्मृगो दावानलादिव।। क्रोधोद्धरमनास्तूर्ण-मुपाश्र- | यमुपाययौ ॥ २ ॥ ज्वलतैव स कोपेन, रात्री स्वापमवीभजत् ॥ तदा सहचरीवास्य, स्त्यानगृद्धिरुपाययौ ॥३॥ REMECORDS मतिनिरूपणे व्यञ्जनावग्र हप्रस्तावे मनसः प्राप्यकारित्वारेकायां दशितानिस्त्यानmदाहरणागि। wwwwwwwwwwwwwwwwwwwwwwwww ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy