________________
CELECTRONICS56
शरीरस्य पुष्टिहानी तावत्पुद्गलजन्ये इष्टानिष्टाहाराभ्यवहारेण तदर्शनाद्,अथेष्टादप्याहाराद्रोगिणां पुष्टयदर्शनादनिष्टादपि च*मतिनिरूपणे भेषजादेस्तदर्शनाद् व्यभिचार इति चेत्,न, धातुसाम्यवैषम्यद्वारा तयोस्त तुत्वात्, तदिह चिन्ताहर्षसमये जायमाने शरीरपुष्टिहानी
व्यञ्जनावपुद्गलसम्बन्धमपेक्षमाणे उपस्थितत्वान्मनःपुद्गलसम्बन्धकल्पनायैव प्रभवतो,नचौदर्यामिपरिपाकजनितातिशयानामेवाहारपद्रलानां
ग्रहप्रस्तावेतद्धेतुत्वावधारणान्नानीदृशानां मनःपुद्गलानां तद्धेतुत्वमिति वाच्यम्, स्वत एवातिशयितानां मनःपुद्गलानां तद्धेतुत्वौचित्यात,
स्वप्नदृष्टांतेन अन्यथा हृद्ग्रन्थेरपि दौर्बल्यजनकत्वं न स्यात् , ननु चिन्ताहर्षयोरेव साक्षाचजनकत्वमस्तु किं नानामनापुद्गलकल्पनया?,वदति
मनसःप्राप्यच-"चिन्तया वत्स ! ते जातं, शरीरकमिदं कृशम्" इति चेत्, न, एकशक्तिमत्त्वेन पुद्गलत्वेन तदेतृत्वकल्पनात्प्रमाणावरोधेन
कारित्वव्यवतत्यागायोगात्तयोरपि मनोजन्यत्वेन मनस एव तद्धेतुत्वकल्पनौचित्याच्च, आकाशवदमूर्तयोश्चिन्ताहर्षयोर्न तजनकत्वमिति प्राञ्चः॥
स्थापयितुः चिन्तयेत्यादिकश्च प्रयोग औपचारिक इति दिग् ॥ तदिदमभिप्रेत्याह-" इटाणिहाहार-भवहारा होन्ति पुडिहाणीओ।
खण्डनम् ॥ जह तह मणसो ताओ, पोग्गलगुणओत्ति को दोसो ॥२२१॥" [इष्टानिष्टाहाराभ्यवहारे भवतः पुष्टिहानी । यथा तथा मनसस्ते पुद्गलगुणत इति को दोषः॥ ] स्यादेतव, शोकहर्षव्यापारनैरन्तर्येण नाडीविशेषप्रयत्नप्रेरितद्रव्यान्तरादेव तदुपपत्तौ किं मन:कल्पनयेति, मैवं, शोकहर्षादिकार्यजनकानां मनोद्रव्याणामेव कल्पनात्तत्र संज्ञामात्र एव परेषां विवादात्, इष्टानिष्टमनोद्रव्योपादाननियम एव कृत इति चेत्, अदृष्टवशादेवेति सर्वमवदातम्॥३५॥ स्वमविज्ञानेन मनसः प्राप्यकारित्वं सेत्स्यतीति निराकर्तुमाह
मनसः प्राप्यकारित्वं,स्वप्नेनापि न सिद्धयति ॥ यदसौ न तथारूपो,व्यभिचारादिदर्शनात् ॥३६॥९४ ॥ 'मम मनो मेरौ गते' इति स्वप्नविज्ञानदर्शनान्न मनसा प्राप्यकारित्वं सिद्धथति तस्याप्रमाणत्वात्प्रबोधे तद्विपरीतदर्शनात,
363