________________
सविवरणं श्रीज्ञाना
र्णवप्रकरणम्॥४ ॥४२॥
RECECANCECAUSHALAKARAN
मतिनिरूपणे व्या
नावग्रहप्रस्तावे मनस. प्राप्यकारित्वस्व खण्डनम् ॥
दोब्बल्लोरक्खयाइलिंगेहि।।जमणुग्गहो य हरिसा-इहि तो सो उभयधम्मो, ॥२१९॥" [ज्ञायते उपघातस्तस्य दौर्बल्योरःक्षतादिलिङ्गैः।। यदनुग्रहच हर्षादि-भिस्ततः स उभयधर्मा तदसङ्गतं, यतो द्रव्यमनस्तावन्मनस्त्वपारणतानि पुद्गलसङ्घातरूपं शोकादिपीडया हृदयदेशाश्रितनिविडमरुग्रन्थिवज्जीवं पीडयेत् तदेव चमनस्त्वपरिणतेश्च पुद्गलसङ्घातरूपं हर्षाभिनिवृत्त्या भेषजवजीवमनु गृह्णीयाचावता ज्ञेयनिमित्तकमनोनुग्रहोपघातकृताभिधानमिदम्।यदाह-"जइ दव्यमणोतिबली,पीलिजा हिययनिरुद्धवाउव्व । तयणुग्गहण हरिसा-दओव्व नेएण किं तत्थ।।२२०॥[यदि द्रव्यमनोतिबलि,पीडयेद् हृनिरुद्धवायुरिव ॥ तदनुग्रहेण हर्षादय इव ज्ञेयस्य किं तत्र] अन्तःकरणं हि न बहिर्गत्वा ज्ञेयमर्थ जानाति न वा तत्स्वसमीपमानीय प्रकाशयति न वा ज्ञेयकृतानुग्रहोपघातभाग् भवतीति भुजमुत्क्षिप्य वयं वदामो,न तु तजीवस्यानुग्रहोपघातावपि जनयतीति वयं वदामः, पुद्गलेभ्य एव तेन तल्लाभात्तथा चेदमस्मान् प्रत्यनिष्टोपदर्शनं वादिनोऽविचार्यवादितामेव व्यञ्जयति। यदाह "नीउं आगरिसिउं वा, न नेप्रमालंबइ त्ति णियमोऽयं ॥तनेयकया जेऽणु-ग्गहोवघायाय ते नत्थिा॥२२२॥[निर्गत्याकृष्य वा न ज्ञेयमालम्बत इति नियमोऽयम्।।तज्ज्ञेयकृतौ यावनुग्रहोपघातौ च तौ न स्तः]"सो पुण सयमुवघायण-मणुग्गहं वा करेज को दोसो।। जमणुग्गहावेघाया, जीवाणं पोग्गलेहितो ॥२२३॥"[तत्पुनः स्वयमुपघातमनुग्रहं वा कुर्यात्को नाम दोषः। यदनुग्रहोपघातौ, जीवानां पुद्गलेभ्यः ] ॥३४॥ । ननु चिन्तनीयवस्तुसंसर्गादेव हर्षशोकरूपावनुग्रहोपघातौ भविष्यतो न तु द्रव्यमनस इति चेत्,न,एवं सत्योदनादिचिन्तया बुभुक्षाद्यपगमप्रसङ्गात् । ननु तर्हि द्रव्यमनसस्तद्धेतुत्वे किं प्रमाणमित्यत आह
देहोपचयदौर्बल्ये, मनःपुद्गलहेतुके । आहारपुद्गलादीनां, तद्धेतुत्वेन निश्चयात् ॥ ३५॥९३ ॥
CHERS
॥४२॥