________________
धर्मसागरीय
उत्सूत्र खण्डनम्
त्वमिव मन्यमानः पूजा क्रियते तदा साधना किमायातं ?, सम्प्रत्यपि साहिद्वारे भवद्गुरूणां साहिवादनसमये साहेमधुकरमकरमौक्तिक मालादिश्राद्धस्त्वदीयविते(नि)रे तदपि मिथ्यात्वं प्रसक्तं, यद्यत्वं मुखरीभूय प्रलपसि तत्तत्सर्वं त्वनिगरणे एव निपततीति ।४।२१६॥ पज्जुसियबिदलमाई-गहणम्मि न तस्स दोसपडिवत्ती-५ । दोसस्स वि पडिवत्ती, ससमणसमणी विहारम्मिः ॥१७॥
२७-“पर्युषितद्विदलादिग्रहणे तस्य दोषप्रतिपत्ति:-दोषाङ्गीकारो नास्ति, आदिशब्दात पर्युषितपूपिकाऽदिग्रहणं” तदियता गुरोरशिक्षितनृत्यस्य कलापिन इव पश्चाद्भागप्रकटनरूपविगोपनं तव प्राप्त, अत्र 'पर्युषितपूपिकादिग्रहण मिति न घटते किन्तु सप्तम्यन्तत्वेनार्थ| घटना विधेयेति, पर्युषितद्विदलादिग्रहणे दोषाभावस्तु त्वत्पूर्वजैरेव स्वीचक्रे स्वस्थीभूय शृणु, श्राद्धविधिप्रकरणवृत्तौ विधिकौमुदीनाम्न्यां (मुद्रितायां १५८ पत्रे) चातुर्मासिकाभिग्रहाधिकारे श्रावकानधिकृत्य “पर्युषितद्विदलपूपिकापर्पटवटकादिशुष्कशाकतन्दुलीयकादिपत्रशाकटुप्परकखारिकीखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवाच्यागः, औषधादि विशेषकार्ये तु सम्यकशोधनादियतनयैव तेषां ग्रहण"मित्यादि, एतावता चतुर्मासके पर्युषितद्विदलादीनां निषेधं वदताऽऽचार्येण शीतकालादौ तदप्रतिषेधात्तद्ग्रहणं बलादापतितं, तथा श्रीसूत्रकृताङ्गे (३३३ पत्रे) क्रियास्थानकाधिकारे साधुवर्णके “अदुत्तरं च णं उख्खित्तचरगा xx अंतचरगा पंतचरगा xx अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवा पंतजीवा" इत्यादि, तथा श्रीऔपपातिके च बाह्यतपोऽधिकारे | "तेणं कालेण"मित्यादि (३४ पत्रे) तावत् "अनगिलायए" (३८ पत्रे), ततश्च "अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे से तं रसपरिचाए" इत्यादि, "व्याख्या-'अन्नगिलायए'त्ति अन्न-भोजनं विना ग्लायति अन्नग्लायका, स चाभिग्रहविशेषात्मातरेव दोषाऽन्न भुगिति" इत्यादि (३९ पत्रे), "अरसाहारे ति-'अरसो' हिग्वादिभिरसंस्कृत आहारो यस्य स, तथा 'विरसाहारे चि विगत