________________
पादितमस्ति, यदीदं मिथ्यात्वं तदा क्षेत्रदेवताकायोत्सर्गोऽपि तवाकर्तव्यः स्याद् भ्रान्त्या मिथ्याखभीरोः, क्रियते च क्षेत्रदेवताकायोत्सर्गः, तथाचोक्तं 'हेतुगर्भे' तपागच्छपतिजयचन्द्रसूरिकृते. "ननु श्रुतक्षेत्रदेवतादीनां कायोत्सर्गकरणं न युक्तं, मिथ्यात्वप्रसक्तेः, नैव-पूर्वधरादि | कालेऽपि एतत्कायोत्सर्गस्य क्रियमाणत्वेन सम्भाव्यमानत्वात्, यतः-'आवस्सयलहुगुरु, वित्तिचुन्निभासेमु पख्खियाईसु । पवयणसारुद्धारे, सुयदेवयमाइउस्सग्गो ।' तथा 'प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवतां गुरुन् साधुन् । आवश्यकस्य विवृत्ति, गुरूपदेशादहं वक्ष्ये ।१।' इति श्रीआवश्यकबृहद्वृत्तौ श्रीहरिभद्रसूरिकृतो नमस्कारः, 'आयरणा सुयदेवयमाईणं होइ उस्सग्गो'इति पञ्चवस्तुके, श्रीवीरनिर्वाणाद्वर्ष | सहस्रे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्दिवङ्गताः, ग्रन्थकरणकालाचाचरणायाः पूर्वमेव सम्भवात् श्रुतदेवताऽऽदिकायोत्सर्गः पूर्वधरकालेऽपि सम्भवति, अतो युज्यते क " तथा तत्रैव पुनरुक्तं "ननु श्रुतरूपदेवतायाः श्रुतसमृद्धयर्थं युक्तः कायोत्सर्गः, श्रुतभक्तेर्ज्ञानावरणादिकर्मक्षपणद्वाराश्रुतसमृद्धिहेतुत्वेन सुप्रतीतत्वात्, श्रुताधिष्ठातृदेवतायास्तु व्यन्तरादिप्रकाराया न युक्तः, तस्याः परकर्मक्ष
पणेऽसमर्थत्वेन श्रुतसमृदयहेतुत्वात् , श्रुतरूपदेवतायास्तु तृतीयकायोत्सर्गे स्मृतिः कृतैव ?, तन्न-श्रुताधिष्ठातृदेवतागोचरशुभप्रणिधानस्यापि a स्मर्तुः कर्मक्षयहेतुत्वेनाभिहितत्वात् , तदुक्तं 'सुयदेवयाइ जीए, संभरणं कम्मख्खयकर भणि।नस्थित्ति अकज्जकरी व,एवमासायणा तीए।१।'
एवञ्च क्षेत्रदेवताऽपि स्मृतिमर्हति, यस्याः क्षेत्रस्थितैविधीयते (साध्वादिभिः स्वक्रियाऽनुष्ठान), ततस्तस्याः कायोत्सर्गानन्तरं स्तुति भणति, यच्च प्रत्यहं क्षेत्रदेवतायाः स्मरणं तत्तृतीयव्रतेऽभीक्ष्णावग्रहयाचनरूपभावनायाः सत्यापनार्थ सम्भाव्यते" तेन पञ्चनदसाधनं क्षेत्रावग्रहयाचनरूपं बोधव्यं, संयमपालनमन्यथा न स्यात्, तदसाधने च तृतीयमहाव्रतमेव तैः खण्डितं स्यात् । अन्यच्च बल्यादिकं तेभ्यो दीयते | तद्धि श्राद्धकृत्यं, प्रहृष्टः शिष्टः श्रावकैस्तदवग्रहयाचनात्समुखं श्रीगुरूणां तत्र देशे विहारप्रवृत्तौ जातायां तासां देवतानामपि स्वसाधर्मिक
मिर्हति यया क्षेत्रस्यदेवयाइ जीए, संभरणोत्सर्ग स्पतिः कृतवात सन्मन्तरादिप्रकाराया मद