________________
धर्म
उत्सूत्रखण्डनम
सागरीय
श्रेयसं मतं ॥३०॥ द्विमातृपितरः ऋद्धि, भुक्त्वाऽगुः स्वर्गमोक्षयोः। श्रीवीरस्य हि कल्याण-मऽकल्याणं कथं ब्रुवे ? ॥३१॥ कल्याण से श्रेय उक्तं हि, श्रेयः कल्याणकं मतं । मोक्षे वीरवियोगेऽपि, मोक्षकल्याणकं मतं ॥३२॥)।४।१॥१४॥ | इह लोगस्स निमित्तं, जिणवरभोगाइमाणणं अस्थि । लोउत्तरमिच्छतं, न होइ तस्सेवमुवएसो १५/
२५-"इहल्टोकस्य निमित्-इहलोकार्थे जिनदरभोगादिमाननमस्ति, परं लोकोत्तरमिथ्यात्वं न भवति, एवमेतस्योपदेशः" एतस्य विशरारुतां दर्शयामोऽवधानं विधाय श्रवोगोचरीचरीकृहि, पूर्व लोकोत्तरमिथ्यात्वमेव न बुद्धं त्वया, तथाहि-लोकोत्तरदेवगतमिथ्यात्वमाह "लोउत्तरो वि वज्जइ परतित्थियसंगहिय(जिण)विये, जत्थ जिणमंदिरम्मिवि निसिप्पवेसोऽवलाण समणाणं. वासो य, नंदिबलिदाणन्हाणणट्ट पइहा य. तंबोलाई आसायणा उ जलकीलदेवयं दोलं. लोइयदेवगिहेसु व वट्टइ असमंजसं एवं. तत्थवि सम्मदिहीण सायरं सम्मरख्खणपराण कप्पइ सवसाण नो गमण” इति मिथ्यात्वस्थानकुलके सप्रत्ययश्रीस्तम्भनकपादेः पुरतो माननादेमिथ्यात्वस्वरूपता न प्ररूपिता, तपारत्नशेखरमूरिविरचित(श्राद्ध)अतिक्रमणवृत्तौ (अर्थदीपिकायां ३४तमे पत्रे) पुनः-"लोकोत्तरदेवगतं तु परतीर्थिकसंग्रहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिहलोकाथै यात्रोपयाचितमाननादि च" इत्युक्तं तदप्रमाणमेव, तत्र तद्वीजं गवेष्यं, भवत्सदृक्षा भवत्पक्षीया यदीदं कुर्वन्ति हठमठास्तदा किं सर्वैरपि प्रमाणपथमानेतव्यं ?, यच्च तिलकाचार्येणागमिकेन। साधुप्रतिक्रमणवृत्तौ प्रत्यपादि-"मिथ्यादर्शन-मिथ्यात्वं, शरीरादिकारणेन स्तम्भनकादिनमस्करणक्षणकरण"मिति तदप्यसुन्दरं. तवापि | निन्हवत्वेन समानत्वात्तस्य, न चाप्रामाणिकस्योपदेष्टुर्वचः प्रमाणं भवति, वाचां प्रामाण्यस्य वक्त्रधीनत्वात्, अन्यथा सर्वमपि वाक्यं प्रमाण स्यात् , तथाऽऽपन्निस्तरणार्थ जिनानां पुरः श्राविकाया उपयाचितककरणस्य श्रीवसुदेवहिण्डौ (मुद्रिते २९३ पत्रे) प्रत्युतोपदर्शितत्वात्तन्न