SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कल्याणरूपकः । तथा पुनरपि प्रोक्तः, त्रिशलोदरगो हि सः ।१२। सुष्ठु प्रोक्तं हि कल्याणं, जिनवल्लभसूरिभिः । दुष्टमुक्तमकल्याणं, त्वत्पूज्यद्वेष्यता हि सा ॥१३॥ प्रोक्तः पंचाशके गर्भः, कल्याणफलसूचकः ! कल्पसूत्रेऽपि सः स्वप्नैः, कल्याणफलसूचकः ।१४। सूत्रार्थमपर नास्ति, येनाऽकल्याणकं भवेत् । धृष्टाः ब्रुवंति मूढाश्च, कर्मबंधनहेतवे ।१५। देवानंदोदराद्गर्भो, त्रिशलाकुक्षि(धारणात् )मोचनात् । ज्ञेयो गर्भो यथा पूर्व, तथा कल्याणको हि सः।१६। हरणं त्रिशलाकुक्षौ, विभोः न मन्यते तदा । कल्याणानि तु पश्चैव, अन्यथा तु षडेव हि ।१७। हरणं त्रिशलाकुक्षौ, मन्यते श्वेतवाससः । दिगंबरा न मन्यते, देवानन्दोदराद्विभोः ।१८। मातृकुक्ष्यागतो जिनः, स्वप्नैः | कल्याणसूचकः । त्रिशलाकुक्षिगो गर्भो, नास्त्यकल्याणको हि सः ॥१९॥ "पंच महाकल्लाणा (श्रेयांसि), सव्येसि जिणाण हवंति णियमेण । भुवणऽच्छेरयभूया, कल्लाणफला य जीवाणं ।३०।” वचः (इदं) पश्चाशके पंच, महाकल्याण(श्रेय)दर्श। त्रिशलाकुक्षिगं गर्भ, नाsकल्याणमलापकं ।२०। उक्तगाथाद्विके गर्भो, महाकल्याणनिश्चितो। कथं भवत्यकल्याणः, त्रिशलोदरगो हि सः १।२१॥ हरणमपहारश्चेवयाऽकल्याणको मतः। धारणं मातृकुक्षौ किं, खयाऽकल्याणक मतं ? ।२२। भगवद्वीरगर्भश्चे-प्ययाऽकल्याणको मतः । श्रीवीरो गर्भरूपश्च, किमऽकल्याणको मतः १।२३। उक्त दिनमनुक्त तत्, कल्याणकमशाश्वतं । तेन किं त्रिशलाकुक्षौ, वीरोऽकल्याणको भवेत् ॥२४॥ पंचशाश्वतकल्याणाः, एकेनाशाश्वतेन षट् । कल्याणकमशाश्वतं, केनाकल्याणकं भवेत् ? ॥२५॥ पंचकल्याणतः षष्ठ-मऽकल्याणं कथं भवेत् ?। पंचमहाव्रतात् षष्ठ-मऽव्रतमऽपि किं भवेत् ।२६। पंचमहाव्रतात्पष्ठं, रात्रावभोजनं व्रतं । पंचकल्याणतः षष्ठं, कल्याणं गर्भधारणं ॥२७॥ जिनराज्याभिषेकस्तु, नास्ति कल्याणपंचके । गर्भधारणकल्याण-मऽस्ति कल्याणपंचके ।२८। सर्वगुणी जिनेन्द्रेऽस्मिन् , वीरेऽकल्याणभाषणं । अकल्याणं तु तत्तस्य, प्रभोः अवर्णवादतः ॥२९॥ कल्याणं शुभसमृद्धि-विशेषाणां हि कारणात् । नीरोगत्वमणन्तीति, कल्याणं
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy