SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सवणो, अस्सिणि णमिणो य नेमिणो चित्ता । पासस्स विसाहाओ, पंच य हत्थुत्तरो वीरो समणे भगवं महावीरे पंच हत्थुत्तरे व होत्या, तंजहा-हत्थुत्तराहिं चुए. चइत्ता गम्भं वकते, हत्थुत्तराहिं गभ्भाओ गम्भं साहरिए, हत्थुराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता जाव पब्बइए, हत्युत्तराहि अणते अणुत्तरे जाव केवलवरनाणदसणे समुप्पन्ने” अत्र गर्भापहारस्यान्यचतुष्कसमतोद्देशेन कल्याणकत्वं स्वत एव निर्दृढं । अत्र केचित्यतिपादयन्ति-प्रथमतीर्थकरस्योत्तराषाढामु जम्बूद्वीपप्रज्ञप्त्यां राज्याभिषेक उक्तः सोऽपि कल्याणकत्वेनास्तु, मैवं, तस्य 5मासतिथ्योरनुक्तत्वात्कस्मिन्मासे कस्मिस्तिथावाराधनं कुर्मः ?, गर्भापहारे च आवश्यकनियुक्तौ मासतिथिनक्षत्राणामुक्तत्वात् , स्थानाङ्गे | किमिति पञ्चमस्थानके पद्मप्रभादिवदेकनक्षत्रेऽस्यापि(राज्याभिषेकस्यापि)प्रतिपादनं नाकारि?,समानयोगक्षेमत्वात् , तथाऽन्येषामपि तीर्थकृतां राज्याभिषेक उक्तोऽस्ति परं न कल्याणकत्वेन न्यगादि, जम्बूद्वीपप्रज्ञप्त्यामयं पाठः-"उसभेणं अरहा कोसलिए पंच उत्तरासाढे अभीइछठे होत्था, तजहा-उत्तरासाढाहिं चुए. चुइत्ता गम्भं वकते, उत्तरासाढाहिं जाए, उत्तरासाढाहिं रायाभिसेयं पत्तो, उत्तरासाढाहिं मुंडे भवित्ता आगाराओ अणगारियं पवइए, उत्तरासाढाहिं अणते जाव (केवलवरनाणदंसणे) समुप्पण्णे, अभीइणा परिनिव्वुए"। तथा आगमिकa श्रीजयतिलकसरिविरचिते 'सम्यक्त्वसम्भव'नाम्नि महाकाव्ये-सुलसाचरिते सम्यक्त्वपरीक्षणनाम्नि षष्ठे सर्ग-"सिद्धार्थराजाङ्गजदेवराज !, कल्याणकैः षभिरिति स्तुतस्त्वं । तथा विधेह्यान्तरवैरिषटकं, यथा जयाम्याशु तब प्रसादात् ।२०। इति स्तुखा जिनाधीश, त्रिप्रणम्याम्बडो मुनिः । विस्मितास्यः सभासीनो-ऽश्रौषीत्तद्धर्मदेशनां ५॥” इति ८ । तथा श्रीजिनदत्तसूरिभिरप्युक्तं-"गभ्भापहारकल्लाणगंपि नहु होइ वीरस्स” इत्युत्सूत्रं, तथा 'सङ्घपट्टक' (३३ मूलकाव्यस्य) बृहद्वृत्तौ (मुद्रिते ५९६ पृष्ठे चित्रकूटीयमहावीरचैत्यप्रशस्तिव्याख्याने)"क्षुद्राणां लिङ्गिनामाचीर्णानि, सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं लज्जनीयत्वान्न कर्तव्यमित्यादिका आचरणा"
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy