________________
धर्म
उत्सत्रखण्डनम्
सागरीय
चात्तस्य, यदत्र वीरस्य पष्ट कन्या च तदभावे मुक्तिरित्यतो न्यूनवाभावालात, न चाच्युतस्य जन्म,
बीपभारतानामृषभादिजिनानां तान्येव सर्वभारतानां सर्वैरवतानां च, यान्येव च एतेषामस्यामवसर्पिण्यां तान्येव च व्यत्ययेनोत्सर्पिण्यामपीप्ति गाथार्थः" (मुद्रिते पत्र १५९) "पंच महाकल्लाणा, सव्वेसिं जिणाण हवंति निययेण । भुवणऽच्छेरयभूया, कल्लाणफला य जीवाणं ॥३०॥" इति, तन्नियमविधायकं वचः, पञ्च भवन्त्येव, न न्यूनानीति, न्यूनखस्याघटमानखात्, न चाच्युतस्य जन्म, न चाजातस्य दीक्षा, न च तीर्थकृतो दीक्षामप्रतिपन्नस्य केवलं, न च तदभावे मुक्तिरित्यतो न्यूनखाभावे नियमः, आधिक्ये तु नियमो नास्ति, साक्षादवलोक्यमानत्वात्तस्य, यदत्र वीरस्य षष्ठे कल्याणके विशेषरूपे विद्यमानेऽपि पञ्चकल्याणकातिपादनं तदतिदेशार्थ, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, यथा श्रीपञ्चमाङ्गे-"जति णं भंते ! सक्के देविदे देवराया जाव महिड्डीए जाव एवइयं च णं पभू विकुचित्तए, ईसाणेणं भंते ! । देविदे देवराया के महिडीए ?, एवं तहेवत्ति" अत्र 'एवं तहेवत्ति'अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं सूचितं तथापि विशेषोऽस्ति,
सचाय-"से णं अट्ठावीसाए विमाणवाससयसहस्साणं असीइए सामाणियसाहस्सीणं जाब चउण्हें असीइणं आयरख्खदेवसाहस्सीण"ति, यथा वा स्थानाङ्गे-"पंच य हत्थुत्तरो वीरो" इत्युक्त्या किं स्वातौ वीरनिर्वाणकल्याणकाभावः प्रतिपादितः ?, किन्त्वेककनक्षत्रोत्पन्नपञ्चपञ्चकल्याणकप्रतिपादनाधिकारात्सदपि षष्ठं वीरनितिकल्याणकं नोक्तं, तद्वदत्रापि न दोषः। तथा सन्देहविषौषध्यां श्रीजिनप्रभसरिकृतायां-"पञ्चसु च्यवनगर्भापहारजन्मदीक्षाज्ञानकल्याणकेषु हस्तोत्तरा यस्य स"५। तथा तपाकुलमण्डनस्किनकल्पावचूरौ-"पञ्चसु कल्याणकेषु हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तरा हस्त उत्तरो यासां वा ता हस्तोत्तरा-उत्तरफल्गुन्यः"६। तथा श्रीस्थानाङ्गे पञ्चमस्थाने (३०७ पत्रे) प्रथमोद्देशके-"पउमप्पभस्स चित्ता, मूलो उण होइ पुप्फदंतस्स । पुवाइ आसाढा, सीतलस्सुत्तर विमलस्स भहवया ।। रेवति ता अणंतजिणो, पूसो धम्मस्स संतिणो भरणी । कुंथुस्स कत्तिताओ, अरस्स तह रेवतीतो य ।२। मुणिसुव्वयस्स