________________
पञ्चकल्याणकव्यवस्था, तथा भवद्गुरुणा कुलमण्डनाचार्येणापि समं भवतो विरोधो दुनिरोधस्समापन्नः, तेन हि पञ्चानामपि कल्याणकत्वं स्वीचक्रे, त्वया च प्रतिषिध्यते, अहो !! गुरुशिष्ययोर्वर्य पारम्पर्य, अथ गर्भापहारे च्यवनादिवस्तुचतुष्कवत् कल्याणकत्वव्यवस्थापिकामनेकशास्त्रसम्मतिं दर्शयामः, पत्तनज्ञानकोशे ताडपत्रपुस्तिकायां चन्द्रकुले श्रीशीलभद्रमूरितच्छिष्यधर्मघोषसूरितच्छिष्ययशोभद्रसूरितच्छिष्यदेवसेनगणितच्छिष्यपृथ्वीचन्द्रसूरिकृते पर्युषणाकल्पटिप्पनके " हस्त उत्तरो यासां ताः, बहुवचनं बहुकल्याणकापेक्षं, योगचन्द्रेण सह सम्बन्धः" । तथा श्रीविनयेन्दुसूरिणा श्रीपर्युषणाकल्पाध्ययननिरुक्ते श्रीविक्रमात्तत्त्वगुणेन्दु(१३२५)वर्षनिर्मिते-" तेणं कालेणं ति-तस्मिन्काले, यः पूर्वतिर्थकरैः श्रीवीरस्य च्यवनादिहेतुतिः कथितश्च, यस्मिन्समये तीर्थकरश्च्यवति स एव समय उच्यते, समयः कालनिर्धारणार्थों, यतः कालो वर्णोऽपि" तथा "हस्त उत्तरो यासां ता हस्तोत्तरा-उत्तरफल्गुन्यो. बहुवचनं बहुकल्याणकापेक्षं, तस्यां हि विभोरच्यवन-गर्भाद्गर्भसङ्क्रान्तिः-जन्म-व्रत-केवलश्चाभवत् , निवृतिस्तु स्वातौ"श तथा दशाश्रुतस्कन्धाष्टमाध्ययनचूणौँ"तेणं कालेणं ति-जो भगवता उसभसामिणा सेसतित्थगरेहि य भगवतो वद्धमाणसामिणो चवणादीणं छण्हं वत्थूणं कालो गातो दिहो वागरिओ य तेणं कालेणं, तेणं समएणं ति-कालान्तर्गतः समयः समयादिश्च कालः, सामण्णकालतो एस विसेसकालो समतो, हत्थस्स उत्तरातो-हत्योत्तरातो गणणं पडुच्च हत्थोत्तरो जासिं ताओ हत्थोत्तराओ-उत्तरफागुणीओ, छट्टी पख्खेणं ति"शयच वर्द्धमानस्वामिनः पञ्चाशकवृत्तावस्मद्गुरुभिः श्रीअभयदेवमूरिभिः पञ्चैव कल्याणकान्सुक्तानि, तत्र हि-"सेसाणवि एवं चिय, नियनियतित्थेसु विष्णेया।३६॥ व्याख्या-शेषाणामपि-न वर्द्धमानस्यैव, ऋषभादीनामपि वर्तमानावसर्पिणीभरतक्षेत्रापेक्षया, एवमेव इह तीर्थे वर्द्धमानस्येव, निजनिजतीर्थेषु स्वकीयस्वकीयमवचनावसरेषु, विज्ञेयानि-ज्ञातव्यावसरेषु ज्ञेयानि-ज्ञातव्यानि. मुख्यवृत्या विधेयतयेति, इह च यान्येव गर्भादिदिनानि जंबू