SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धर्मसागरीय उत्सूत्र खण्डनम् न तावन्मासनामग्रहणमकारि, तेनात्र नाधिकमासाऽगणनाऽवकाशः, कार्तिकचतुर्मासकाऽधिकारे तु चन्द्रसंवत्सरापेक्षया पर्युषणातो दिनैस्ससत्यैव तस्य सम्भवः, अभिवधितवर्षे जैनाम्नायेन पौषापाढयोरेव वृद्धौ शतदिनैरेव तस्य सम्भवः, लौकिकटिप्पनकानुसारेण तु श्रावणभाद्रपदाश्वयुजवृद्धौ दिनशतसम्भवः स्यात्, दीपमालिकाऽनन्तरमेव चतुर्मासकसम्भवात् , शैलकज्ञाते कार्तिकपूर्णिमायां चतुर्मासकप्रतिक्रमणस्योक्तत्वात्” इति, तथा श्रीजिनपतिसूरिभिरप्युक्तं-"सावणे भद्दवए वा अहिगमासे चाउम्मासाओ पप्णास इमे दिणे पज्जोसवणा कायदा, न असीइमे” इति, तेन त्वमशीत्या दिनैः कुरुषे पर्युषणावं तत्सिद्धान्तोत्तीर्ण, सविंशतिरात्रमासस्य सूत्रोक्तस्योलडितत्वादिति (न कल्पते पर्वोल्लंघनं उक्तश्व-"सवीसइराए मासे विइकते वासावास पज्जोसवेमो, अंतरावि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए"त्ति, एवं चातुर्मासिकपर्वेऽपि नोक्तमिदं "अंतरावि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए"त्ति । तिथिक्षयात्तस्मिन्नेव पक्षे वा पूर्वापरपक्षेऽधिकतिथिः त्वयाऽपि गण्यते एव, यथा तृतीयाक्षये त्रयोदशीवृद्धौ च पूर्वापराऽधिकतिथिः, एवं अधिकमासस्य अधिकपक्षौ अधिकदिनरात्रयश्च. पाक्षिकप्रतिक्रमणादौ मासपक्षादिमध्ये गण्यन्ते एव, यतः श्रीभगवद्गणितं न मिथ्या भवति उक्तश्च-"गोयमा !० अभिवढियसंवच्छरस्स छन्वीसाई (२६ पख्खाई) पव्वाई" इति ।)।३।४। २३-तथा “भाद्रपदवृद्धौ प्रथमभाद्रपदे 'तेन' औष्ट्रिकेन तत्' पर्युषणापर्व उक्तं" एतदपि ते न सङ्गतिमऽङ्गति, दत्तोत्तरत्वात् , पञ्चाशता दिनैः पर्युषणाया उक्तत्वात्तदुल्लहानमऽकुर्वद्भिरस्माभिः कथमागः प्राप्तं ?, तवैवेयं विशिष्य दोषावप्तिः, न च भाद्रपदवृद्धौ द्वितीयभाद्रपदशुक्लचतुर्थी पर्युषणा कर्त्तव्येत्युक्तमस्ति, किन्तु पञ्चकदशकगणनयेति, तेन प्रथमभाद्रपदशुक्लचतुर्थ्यवायाता, अमृतं पिब, न च "असङ्क्रान्तिमासोऽधिमासः स्फुटं स्यात्” इति भास्करसिद्धान्तोक्तत्वादसङ्क्रान्तिमासे कथं पर्युषणापर्खे ? ति वाच्यं, तस्मिन् लग्नकार्यस्यैव
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy