SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पूर्वाचार्याचरणाविशेषात्तस्यामेव पाक्षिककृत्यं विधेयं, आचरणाया अपि कथञ्चिदागमानुपातित्वात, त्रयोदश्यां तु तत्कृत्यकरणे आगमाः चरणयोरन्यतरस्याप्य नाराधितत्वं स्यात्, चतुर्मासकचतुर्दशीहानौ श्रीजिनमभाचार्यैरप्येतस्या एव युक्तेरंशेन आश्रितत्वात् तथाहि - " नवरं |चाउम्मासिए चउदसीहा से पुण्णिमा जुज्जइ, तेरसीगहणे आगमआयरणाणं अन्नतरंपि नाराहियं होज्जा" इति, नन्वष्टम्या हानौ सप्तम्यामष्टमीकृत्यं कथं क्रियते ?, उत्तरतिथावेव क्रियतां चतुर्दशीहासे पूर्णिमायामिव ( इति चेत् ) न, दत्तोत्तरत्वात्, पर्वतिथित्वं राकाया न गतमस्ति, तेन तद्धानौ तत्र क्रियते, अत्रत्वर्वागुत्तरतिथ्योर पर्वत्वे समानेऽपि सप्तम्यां तद्भोग बहुत्वेन वरं सप्तम्यामेवाष्टमीकृत्यकरणं, एतत्संवादिका इमा गाथा अपि श्रूयन्ते, तथाहि - 'पज्जुसणे चउमासे, पख्खियपद्यहमी कायद्या । जाए उदए सूरो, ताउ तिहीओ न अन्नाओ । १ । ” इति सूर्यप्रझतौ, " भवइ जहिं तिहिहाणी, पुव्वतिहीविद्धिया य सा कीरइ । पख्खी न तेरसीए, कुजा सा पुणिमासी । १ । ” इति श्रीहरिभद्रसूरिकृत 'तत्वविचारसार 'ग्रन्थे, “तिहिपडणे पुव्वतिही, कायव्वा जुत्ता धम्मकज्जेसु । चाउद्दसी बिलोवे, पुष्णिमियं पख्खि पडिकमणं |१| तत्थेव पोसहविही, कायव्वा सावगेहिं सुहहेऊ । न हु तेरसीहिं कीरह, जम्हाऽणाऽऽणाइणो दोसा । २।” आचारवल्लभायां उमास्वातिवाचककृतायां, तथा "छट्टिसहिआ न अट्ठमि, तेरसिसहिअं न परिव्खयं होइ । पडिवयसहियं न कया वि इअ भणियं वीरागेहिं |१| " ज्योतिष्करण्डके, ( अमावस्यापूर्णिमाहानौ चतुर्दश्यां पर्वतियां पौषधोपवासपाक्षिकमतिक्रमणादि न करणं किन्तु त्रयोदश्यां तत्करणं अयथास्थाने कुविकल्परूपं ज्ञेयं अस्य तपोभूतस्य सागरस्य ) । ३ । २ । २१- "वृद्धौ च प्रथमतिथि: पाक्षिकमित्येतस्य - खरतरस्य कुविकल्पः " इदमप्यन्तर सारं, खरपुरीषवत्, वृद्धौ प्रथमा तिथिः कथं न गृह्यते ?, उदयास्वमनयोरपि तत्तिर्वर्त्तमानत्वात्प्रयमातिक्रमे कारणाभावाच्च भवता हि वृद्धौ योत्तरा तिथिः सा तावदल्पाऽपि गृशते तत्र
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy