SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ धर्मसागरीय मनास्तथाविधतपःशक्तिरहितो द्विभक्तादिनाप्युपधाननपः पूरयति, यतः “ एक्केण सुद्धअच्छे विलेण इयरेहि दोहि उनवासो | नवकार सहि एहि, पणयालीसाउ उववासो |१| आयरणाओ नेयं, पुरिमडिहि सोलसेहि उववासो । एकासणगा चउरो, अठ्ठ य बिकासणा तह | २|" इत्यादि नन्द्यां भणितं, विशेषेणासौ सावद्यव्यापारं विकथां रौद्रध्यानश्च परिहरन् विश्राममकुर्वन् अत्यन्तमुपधानत (स्त) पः कुरुते, यत उक्तं - "अव्वावारो विगहाइ, वज्जिओ रुद्दझाणपरिमुको । विस्सामं अकुर्णतो, उवहाणं कुणइ उवउत्तो |१| " तथा " निखिलनमस्काराद्युपधानाविश्रामवहनानन्तरं षण्मासमध्ये एतेषामनुज्ञानन्दी विधीयमाना विलोक्यते, श्रावकश्राविकाणां तु एकस्मिन्नुपधाने अव्यूढेऽपि गुर्वनुज्ञया अनुज्ञानन्दी विधीयमाना दृश्यते, परमेतैरहोरात्रपौषध दिनानि पश्चादपि शीघ्रं सविशेषं पूरणीयानी" ति साधोरप्युपधानवहनमाख्यातं, तदेतत्ते नभसि विचित्रचित्र विश्चन मित्र कस्य नाम न हास्यावहं साधूपधाननिषेधविकल्पनं १ ।२।४-५।१०। अह अजहठ्ठाणकिरिया, तइयं उस्सुत्तमत्थि दुत्थमए । काऊणं सामइयं, इरियावहियापडिकमणं १ । ११ । १९–“अथायथास्थान क्रियारूपमुत्सूत्रं दुःख्यमते - वराकमते, वर्त्तत इति गम्यं तथाहि - सामायिकं कृत्वा ईर्यापथिक्रीप्रतिक्रमणं, अयथास्थानत्वं च स्थानपरावृत्त्या भवति तथाहि ईर्यायाः स्थानं सामायिककरणात्पूर्वसमय: सामायिकस्य च स्थानं ईर्याप्रतिक्रान्त्यनन्तरः समयः, तयां विपर्ययकरणात्तज्ज्ञेयं, एवमग्रेऽपि " x अत्रैतद्वृचिकृता सुत्रे 'अस्ती'ति क्रियायां विद्यमानायां 'वर्त्तत इति गम्य' मित्यलेखि तत्सूत्र x आवश्यकचूर्णिटीकाकारादिपूर्वाचार्यैः प्राकू 'करेमि भंते !' इत्यादिना सावद्यपापमलवर्जनं पश्चादीर्या पथिक्या शुद्धिं विधाय आलोचनगुरुवन्दनपठनादि महानिशीथेऽपि चैत्यवन्दनसज्झायध्यानादि प्रोक्तं तदप्यनेन खरीजेन दुःस्थवराकमतलंठेन अयथास्थानकियोत्सूत्रं भणितं । उत्सूत्र खण्डनम् ॥ १६ ॥
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy