________________
अह बीयमहिअकिरियं, रयणीपोसहियरत्तिअवसाणे । सामइयं कायव्वं , इय भणियं तेण मूढेण ।।
१४-" अथाधिक क्रियारूपमुत्सूत्रं, तथाहि-'रयणीपोसहित्ति विभक्तिलं प व्रजनीपौषधिकेन रात्रिपश्चिमाहरे सामायिक कर्तव्यमिति तेन मूढेन भणितं” तदपि महामोहप्रमादिपलपितप्राय, यतो नाधिका क्रिया क्रियतेऽस्माभिः, यथोक्तक्रियाकरणे दूषकत्वं भवतो दोषायैव, पौषधिकस्य पश्चिमरजन्यां सामायिकग्रहणविधिरयं श्रीजिनवल्लभसूरिभिः पौषविधिप्रकरणे प्रोक्तं "तओ राइए चरमजामे उहिऊण इरियावहियं पडिक्कमिय सक्कथएण चेइए वंदिय पुत्ति पेहिय नमुक्कारपुव्वं सामाइयमुत्तं कट्ठिय संदिसाविय सज्झायं कुणइ, जाव पडिक्कमणवेला, तओ उ पुत्वविहिणा पडिक्कमिय पडिलेहणाइयं करेइ” इति, तथा पञ्चाशकचूर्णावपि "तओ राईए चरमजामे उहिऊण इरियावहियं पडिक्कमिय पुचिच पोति पेहिय नमुक्कारपुव्वं सामाइयमुत्तं कट्ठिय संदिसाविय सज्झायं कुणइ" इति, तथा श्रीजिनप्रभसूरिभिर्विधिप्रपायामप्युक्तं "तो पच्छिमरयणीए उठिय इरियावहियं पडिक्कमिय कुसुमिणदुस्सुमिणकाउस्सग्गं सयउस्सास मेहुणसुमिणे अड्डत्तरसयउस्सासं करिय सक्कत्ययं भणिय पुव्वुत्तविहीए सामाइयं काउं सज्झायं संदिसाविय ताव करेइ जाव पडिक्कमणवेला" इति, एवंविधे रात्रिपौषधिकस्य सामायिकग्रहणविधी विद्यमाने कथं तनिषेधमुखो भवसि ?, अन्यच्च युक्तिरप्यत्र युक्तोच्यते-तरात्रेमुहर्तेऽवशिष्ट एव तेन सामायिकानुगत पौषधं जगृहे, सामायिकस्य च जघन्यतोऽवस्थान मुहूर्त्तमात्रं, ध्यानशतके ध्यानस्यैतत्कालमानत्वेनोक्तखात्, उत्कृष्टतस्त्वष्टौ यामान् यावत् , ततोऽस्यां पौषधिकरात्रौ मुहूर्तावशिष्टायां सामायिकपूर्णता वृत्ता, ततः पूर्वसामायिकावधौ पूर्ण पुनः सामायिक यदि गृहीते तदा न्याय्यमेव, पर्वदिनमाश्रित्य यदि पौषधं जिघृक्षुर्भवति तदा पौषधपि गृन्हन्तु, पौषधग्रहणसमयस्तु मुहूर्तावशिष्टरात्रिभाग एवोत्सर्गतो, यदि तेन च पौषधं न गृहीतव्यं तहि पूर्वगृहीतपौषधं प्रातरपर्वण्यपि पारयत. तत्समय एव तत्पारण विधेरुक्तखात , ग्रहण