________________
पइअत्थो, हवेज्ज तो महुरणयरिगेहेसु । मंगलप डिमापि हु तुम्ह मया पावइ पट्टा | १४ | व्याख्या- 'यदि पुनरिति पराभिप्रायाश्वासनार्थः, प्रतिष्ठालक्षणो 'ऽर्थोऽभिधेयो ' भवेत्' जायेत ततो 'मथुरानगरी गेहेषु मथुराभिधानपत्तन सदनेषु मङ्गलप्रतिमानामपि, न केवलं तव सम्मतानामित्यपि शब्दार्थः, हुः पूरणे, 'युष्माकं' भवतां 'यता' दभिप्रायात्प्राप्नोति प्रतिष्ठा भवत्सम्मता, अत्राप्यस्य विद्यमानत्वादित्यभिप्रायः, मङ्गलप्रतिमाह ता उच्यन्ते यासामकरणे गृहस्योपद्रवादिकं भवति, यथाऽत्र देशरूढ्या गृहद्वारस्योपरि विनायक - मूर्त्तिस्तुविद्योपदेशात् क्रियते तथा मथुरायां गृहे गृहे पार्श्वनाथजिनप्रतिमा ब्राह्मणादिभिरपि गृहद्वारस्योपरि कार्यन्ते, यदि न क्रियन्ते ततो गृहाणां पतनादिकं भवति, तथा च तत्रैव कल्पे भणितं मङ्गलचैत्यप्ररूपणावसरे 'महुराए नयरीए जिणपडिमाओ गि गिहे प विज्जति' प्रतिष्ठाप्यन्ते न्यस्यन्ते इति भवतोऽपि सम्मतं, न हि तासां मिध्यादृष्टिभिस्तव मम च सम्मतं प्रतिष्ठाविधानं क्रियते, एतदिहाकूतं - अस्य शब्दस्यात्र न्यसनमेव वाच्यं किञ्च प्रथमशब्दस्य नैरर्थक्यं प्राप्नोति, नोकस्या एव प्रतिमाया द्वितीया प्रतिष्ठा क्रियते येन तद्युच्छित्तये प्रथमशब्दोपादानं क्रियते, अस्मत्पक्षे तु प्रथमं रथारोपणं संभवत्येव, पूज्यास्तु व्याचक्षते 'अत्र करोतेर्भणनेऽपि कारापणं दृश्यं ततश्च साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयतीत्यर्थः, यथा उमास्वातिवाचकोक्तार्यायामस्यां 'जिनभवनं जिनबिम्ब, जिनपूजां जिनमतं च यः कुर्यात्, तस्य नरामरशिवमुख - फलानि करपल्लवस्थानि |१| अत्र कुर्यादित्युक्तेऽपि कारयेदिति दृष्टव्यं,
श्राद्धः स्वयं जिनमन्दिरं तत्प्रतिमां वा करोति, एवमत्रापि, प्रथमशब्दसाफल्यं त्वेवं कथयन्ति तेन श्रावकेण प्रथममेव प्रतिमा कारिता, शोsपि कारावणस्थाने करणशब्दप्रयोगः स्थाने स्थाने प्रतिपादित एवेति गाथार्थः " श्रीजीवानुशासने प्रथमाधिकारे (९-१०-११पृष्ठे ), अत्र 'साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयती 'त्युक्त्या साधुपदं श्रावकप्रतिष्ठाप्रतिषेधपरं “गिहीणमुचिआ जिणपट्ठा "