SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मध्यान्हे एव देववन्दनक” इदमप्यज्ञानविजृम्भितं भवता विभाव्यते विदुषां पुरः, तत्र पौषधमध्ये श्रावकाणां प्रातः सायं प्रतिक्रमणस्यान्ते आदौ च यच्चैत्यवन्दनं तद्विना कापि जीर्णशास्त्रेऽन्यञ्चैत्यवन्दनं नास्ति, सम्पति भवद्भिः प्रातः सायं तच्चैत्यवन्दनात्पृथक् चैत्यवन्दनं यदादिश्यते तद्व्या, जीर्णशास्त्राभिप्रायेण प्रतिक्रमणाद्यन्तचैत्यवन्दने चैत्यगृह एवोपदिष्टे स्तः, यदुक्तं श्रीउत्तराध्ययनेषु षइविंशाध्ययने वृत्तिकृता-“यत्र चैत्यानि तत्र तद्वन्दनं विधेय" तथा "जइ चेईहरे ठिया क्यिालियं कालं पडिकता अकए आवस्सए गोसे कए य आवस्सए चेईए न वदंति ता मासलहू" इति श्रीव्यवहारचूणौँ पीठिकायां, तथा "जइ चेइयाई अत्थि तो वंदति” इत्यावश्यकचूर्णावपि, एतावता देवगृहचैत्यवन्दनव्यतिरिक्तप्रतिक्रमणचैत्यवन्दने न स्तः, आद्यन्तयोश्चैत्यवन्दनयोः सतोर्यवयाऽधिकक्रियोपदेशः क्रियते तत्तवैवोत्सूत्र, मध्यान्हचैत्यवन्दनं तु श्रीजिनवल्लभसूरिभिरप्युक्तं पौषधविधिप्रकरणे-"तो पउणपोरिसीए खमासमणेण संदिसाविय खमासमणपुव्वमेव पडिलेहणं करेमित्ति भणिय मुहणंतगं पडिलेहिता संभविभंडोवगरणं पडिलेहेइ, मज्झे सव्वत्य सज्झाओ, जाव कालवेला, तओ जइ चेईहरे देववंदणं न कयं ? तो ते करेइ चिइचंदणं" इति त्रिकालचैत्यवन्दनं साक्षादेवाख्यातमपलप्य कोऽयं तवाधिकचैत्यवन्दनाऽऽक्षेपः ?, अन्यच्च क्रियाविशेषादधिकं चैत्यवन्दनद्वयमभ्युपगन्तव्यं चेत् ? तर्हि साधूनामपि तपोयोगसमये तदधिक निर्देष्टव्यमायात, क्रियाविशेषस्योभयत्रापि समानखात् । १।१०।७। आयरियं मोत्तूणं, न जुज्जइ पइठपमुहमहकिच्चं ११-१२ । इचाइ १३ नूणकिरिया, उस्सुत्तं तम्मए णेयं ।८।। ११-१२-१३“आचार्य मुक्त्वा न युज्यते प्रतिष्ठाप्रमुखं 'महःकृत्य महोत्सवकृत्यं, प्रमुखग्रहणान्मालारोपणादिपरिग्रह, इत्यादि न्यूनक्रियारूपमुत्सूत्र ज्ञेयं, आदिशब्दादू गोचर्यादौ पटलकग्रहणनिषेधादिक मन्तव्य " तदप्ययुक्तं, श्रीजिनदत्तमूरिभिरुक्तमुत्सूत्रपदोघट्टनकुलके-"न्हवण
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy