SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ वा पिबन्ति, किं तर्हि ?-उष्णोदकमेव वा बिभीतकादिरसभावितोदकमेव वा, तच्च पानकाकारोच्चारणमन्तरेणापि पातुं कल्पत एव, एतच्च प्राग विचारसारचतुष्पदिकावृत्ता'वेव दर्शितं, अथ न कल्पते ? तहि-दिवसचरिमप्रत्याख्यानेऽपि पानकाकारोच्चारणप्रसङ्गः, तत्रापि हि द्विधाहारत्वेन त्रिधाहारत्वेन वा कृते पानकस्य पीयमानखात् . नन्विदं रात्रिप्रत्याख्यानं दिवसचरिमभागे एव क्रियमाणखात् रात्रिभोजननिषेधत्वाच रात्रौ च खजूरादिपानकानि धर्मविरुद्धत्वेन जैनानामपेयान्येवेति कथं पानकाकारोचारण प्रसङ्ग इति चेत् ?, एवं ह्यत्र त्रिधाहारमिति पदमनुच्चार्यमेव, एतदनुयायिखात्पानकाकारोच्चारणस्य, यदुक्तं-"जइ पुणो कुणइ पोरिसि पुरिमेगासणमभ्भत्तहे तिविहआहारे पाणगमुद्दिसिउ लेवाडेणिञ्चेवमाइयं कुणइ आगाराणं छकं, तत्थ य सुत्तं इमं भणियं” इति, अथ शुद्धोदकपानार्थ विधाहारमित्यादि पदमुच्चार्यत एव, अन्यथा संमुग्धवाक्यखादेकस्याप्याहारस्याभक्षणं सर्वेषामपि वा भक्षणं सम्पसज्येत् , एवं तर्हि सिद्ध पानकाकारोच्चारणमन्तरेणापि शुद्धोदकपानं, तथा च यथा दिवसचरिममत्याख्यानेऽनुच्चारितेष्वपि पानकाकारेषु रात्रौ गृहस्थाः शुद्धोदकं पिबंति तथाऽन्येष्वप्येकासनादिषु देवसिकप्रत्याख्यानेषु पिबन्तु, समानयोगक्षेमत्वात् , किञ्च खजूरतिलतण्डुलधावनावश्रावणादीनि पानकानि यथा रात्रौ.गृहिणामपेयानि तथा दिवाऽप्यपेयान्येव, तत्पानस्य धर्मेऽभिमुखानामप्रतिपत्तिहेतुत्वेन. प्रतिपन्नानां विपरिणामहेतुत्वेन. वैधर्मिकाणां जिनधर्मनिन्दाकृतौ प्रेरकत्वेन च महादोषत्वात् , तथा च तेषां पानकाकारोचारणमनर्थकमेव, ननु नानर्थक, यतो यद्यपि फोगरंगदारिमच्छल्यादिभिः पासुकीकृतं जलं त्रिधाहारेण पातुं कल्पत एव, तेषां कषायवृक्षफलछल्लीचूर्णत्वेनानाहारकत्वात् , तथाऽपि विभीतकादिना मासुकीकृतं न कल्पत एव. तस्य स्वादिमाहारत्वादिति, तदर्थ पानकाकारानुचरन्तु गृहस्था इति चेत् ?, न, वस्तुवृत्त्या विभीतकादेरपि कटुफलत्वेनानाहारत्वात् , श्रीजिनदत्तमूरिभिरप्युक्तमुत्सूत्रपदोघट्टन कुलके "अजियजलाहारिगिही पाणागारे समुश्चरइ" इदमुत्सूत्र ।।६।
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy