________________
उत्सुधा
धर्मसागरीय
७-“श्रावकप्रतिमाधर्मो व्युच्छिन्नोऽस्तीति तद्वचन-चामुण्डिकवचनं” इदमपि तस्य जारगर्भवदनुच्चार्यमेव, पूर्व चामुण्डिकत्वमेव श्रीजिनदत्तमूरीणामप्रसिद्धमस्मच्छास्त्रेषु, न च चामुण्डाराधनं तैः कापि कृतं, ते हि चतुःषष्टियोगिन्यादिसाधकत्वान्मिथ्यात्वभीरवः कथं तदाराधनं विदध्युः ?, स्वत एव तत्पादयोलगन्तिस्म सर्वेऽपि सुराः, तथा चाम्बिकावचोऽम्बडहृदययुगप्रधानत्वनिर्णयाधिकारे
खण्डनम् "दासानुदासा इव सर्वदेवा, यदीयपादाब्जतले लुठन्ति । मरुस्थलीकल्पतरुः स जीयाद्, युगमधानो जिनदत्तमूरिः ।१।" इति,
न च श्रीजिनवल्लभसूरय इदं विदधुस्तेऽपि चित्रकूटे बहिश्चामुण्डादेवकुले चामुण्डाऽवग्रहं गृहीत्वा तस्थुः, ततस्तद्गुणावलोकनावर्जिता प्रतिबुद्धा सती श्राविकेव तत्पादाम्भोजभृङ्गी जज्ञे इति प्रवादः, यदि चामुण्डाप्रतिबोधनेन चामुण्डिकत्वं ?, तदा वर्द्धमानस्वामिनोऽप्यस्थिकग्रामे शूलपाणेः प्रतिबोधनाच्छौलपाणिकत्वं वाच्यं स्यात् , नचैवं चामुण्डिकशब्दनिष्पत्तिरपि, नहि प्रतिबोधे ठप्रत्ययविधानं कापि दृष्ट, 'साऽस्य देवता' (पा० ४-२-२४) इत्याराधनेऽण्मत्ययस्योत्पत्तेरभिधानात् , प्रत्युतोच्छिष्टचाण्डालीदेवताss| राधनं भवत्सूरीणामेव श्रूयते, तेन भवदुक्त्या भवन्त एवोच्छिष्टचाण्डालिका इति, एवमुक्तेन वैरनिर्यातनं त्वया विहितमिति केवलंत्र स्वीयगच्छवासिनां श्रोत्रसुखमेव जनितं, पश्चात् साहिद्वारे पञ्चवर्षी यावद्दुःखसहनमिदमेव महनं तेषां त्वयैव विहितमिति "मुखेन बध्यते कर्म, तद्विपाको हि दुस्सहः । हेलया ध्रियते गर्भो, दुःखेन हि विमुच्यते । १।” गालनावसानत्वं च त्वद्विहितशास्त्राणामत एव विधिना व्यथितः । अथान्तःस्थपदखण्डनं शृणु-'श्रावकधर्मस्य व्यवच्छेद' एतस्यार्थ एव त्वया नाबोधि, तद्व्यवच्छेदवचनमदस्तीर्थोंद्गारप्रकोणके-“साहूणऽग्गोयरओ, वुच्छिन्नो दूसमाणुभावाओ । अज्जाणं पणवीसं, सावगधम्मो य वोच्छिन्नो ।" अर्थस्त्वयं"पूर्व महात्मनां प्रमादाल्पत्वेन 'अग्गोयरउ'त्ति अग्रवेत्तारः (अग्रावतारः)-परिधानविशेषः साधुजनप्रतीतः आसीत् , स सम्मति व्युच्छिन्ना,