________________
साधुं न व्याहरति, विकृष्टतपश्चाष्टमादारभ्य भवति, तस्य कदाचिद्देवता प्रातिहार्ये करोति अतस्तस्य न दीयते " इत्युद्धरितभक्ताधिकारे (१९१ पत्रे ), किञ्च युगपदष्टमप्रत्याख्याते प्रथमदिने चतुर्विधाहारपरिहारिणोऽन्ययोस्तयोः पानकाहारकर्तुरष्टमप्रत्याख्यातुरायदिने कथं प्रत्याख्यानं भवेत् ?, तथा अष्टमप्रत्याख्यातोपासकः षाण्मासिक तपश्चिन्तनावसरे आद्यदिने अष्टमं कर्त्तुं शक्रोमीत्युक्तौ सत्यां द्वितीयेऽहि किं तपः कर्तुं शक्रोमीति ब्रूयात् १, तथा प्रथमेऽन्हि अष्टमभक्तं प्रत्याख्यामीत्युक्ता वङ्गीक्रियमाणायां एकाभक्तार्थकर्तुः 'सूरे उग्गए उत्थभत्तं पञ्चख्खामीति पाठपठनप्रसङ्गः, पठ्यते च 'सूरे उगए अभ्भत्तह' मित्यादि, आवश्यकसूत्रे (८५३ पत्रे ) तथैवोपलब्धेश्य, तथा च षष्ठाष्टमादिमत्याख्यानेष्वपि 'सूरे उग्गए अभ्भत पच्चख्खामीति पाठो वाच्यो, न 'छट्टभत्तं पच्चख्खामीति पाठः, षष्ठाष्टमादीनां तु सङ्केतमात्रत्वात् तथाऽऽद्यदिने युगपदष्टमप्रत्याख्याते दिनान्तरयोः किं प्रत्याख्येयं स्यात् ?, पानकोच्चारे तु अभक्ते चतुःस्थानताहानिप्रसङ्गः, यदुक्तं - "पढमंमि चउत्थाइ, तेरस बीयंमि तइयपाणस्स । देसावगासतुरिए" इति प्रत्याख्यानभाष्ये, एवं भवदुक्त्या कोटीसहित प्रत्याख्यानमपि नाराधितं स्यात्, तत्स्वरूपञ्चेदं - " गोसे अभ्भत्तछं, जो काउं तं कुणइ बीयगोसे वि । इय कोडीदुगमिलणे, कोडीसहियं तु नामेण । १९११ 'गोसे'त्ति प्रभाते, अभक्तार्थ-उपवासं यः कृत्वा तमुपवासं करोति द्वितीयप्रभातेऽपि इति कोटी द्विकमिलने पूर्वदिनकृतोपवासप्रत्याख्यान निष्ठापनालक्षणाया द्वितीयदिनप्रभातक्रियमाणोपवा समस्थापनालक्षणाया कोटेर्मिलने तस्य कोटीसहितमिति नाम्ना प्रत्याख्यानं, एवमष्टमादिषु एकतः कोटीद्वयं निष्ठापनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापनारूपमनयोर्मिलने कोटिसहित, एवमाचामाम्ल निर्विकृति फैका सन कैकस्थानेष्वपीति " (प्रत्र० पत्र ४४-४५) । आवश्यकवृत्तावपि (८४२ पत्रे ) " भावत्थो पुण- जत्थ पञ्चख्खाणस्स कोणो कोणो य मिलति, कथं ? - गोसे आवस्सए अभ्भत्तठ्ठो गहितो, अहोरत्तं