________________
तावज्जीवः किं करोतीत्याह
तत्तो अव्वविरियस्लासवसादपुचकरणेणं ।
ठि दिइ जीवो, जो भवो जेण भणियामिमं ॥ १० ॥
व्याख्या--‘ततो’ ग्रन्थिदेशप्राप्तेरनन्तरं, 'अपूर्ववीर्योल्लासवशादपूर्वकरणेन पूर्वं कदाचिदप्राप्तेन, अत्र हि वर्त्तमानो जीवस्तादृशान् स्थितिघातरसघातादीन् क्रियाविशेषान् करोति, यादृशाः संसारे न कदाचित्पूर्वं कृता इत्यतोऽपूर्वकरणमिदमुच्यते, | 'ग्रन्थि भिनत्ति' निविडकर्म्मभावरूपं विदारयति यो 'भन्यो' मुक्तिपदयोग्यो नान्य इति भावः । किं स्वमनीषिकयेदमुच्यते ! नैव येन सिद्धान्ते भणितं ॥ १० ॥ कथमित्याह
जा गंठी ता पढमं गठि समइच्छउ भवे बीयं ।
अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ ११ ॥
व्याख्या - यावद् ग्रन्थि तावत्प्रथमं यथाप्रवृत्तिसंज्ञं करणम्, न विद्यते समानसमयवर्त्तिनां परस्परमध्यवसायस्य निवृत्ति:वैलक्षण्यं यत्र तदनिवृत्तिकरणम् । अत्र हि प्रविष्टानां प्राणिनां प्रथमादिकेऽसङ्ख्येयतमावसानसमये वत्तमानानां स्वभावादेव निवृत्तिः - वैलक्षण्यं नास्त्येवेतिभावः । एतच्च मिथ्यात्वं यदुदीर्ण तस्मिन् क्षीणेऽनुदीर्णे तु सत्तामात्रवर्त्तिन्युपशान्ते उदयोद्वर्त्तनाद्ययोग्यत्वेन व्यवस्थापिते सति स्यादित्याह - सम्यक्त्वपुरस्कृते जीवे सम्यग्दर्शनाई प्राणिनि भवतीति शेषः ॥ ११ ॥
स च कर्म्मग्रन्थिः किं स्वरूप इत्याह