SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मकरणम धर्मविधि ॥१०॥ CARRO R EIGRICICLECTRICA मिच्छत्तमोह एगूण-हत्तरं कोडिकोडिमयराणं । नियमा खवेइ जीवो, अहापवत्तेण करणेण ॥ ८॥ व्याख्या-मिथ्यात्वमोहे-मिथ्यात्वविपाककारिणि मोहनीये कर्मणि एकोनसप्तति कोटाकोटिमतराणां-सागरोपमानां 'नियमा' निश्चितं क्षपयति 'जीव' प्राणी, केन यथाप्रवृत्तिकरणेन-अध्यवसायविशेषेण, इदमत्र हृदयम्-इह तीर्थकरगणधरचक्रवादीनामपि सर्वे जीवाः प्रथमं तावदव्यवहारराशिषु निगोदादिष्वनादिकालादारभ्य मिथ्यात्वमेव केवलं वेदयन्तोऽनन्तान् पुद्गलपरावर्तान् यावत् प्रतिवसन्ति । ततः कश्चिद् भव्यत्ववशात्तेभ्य उद्धृत्य पृथ्व्यादिषु पौन:पुण्येन पर्यटन्ति । तदित्थमनन्तानि पुदगलपरावर्तलक्षणानि संसारकान्तारे केवलमिथ्यात्वमोहितमतयो जीवाः परिभ्रम्य ततः कथश्चिन्मनुष्यत्वादिष्वागताः सन्तो यथावृत्ततः कर्माणि ग्रन्थिप्रदेशागमनप्रतिपन्थीनि क्षपयित्वाऽभिन्नपूर्वग्रन्थि केचित्कथमपि प्राप्नुवन्ति । शद्वार्थश्वायम्-करण तावदध्यवसायविशेषः । स च विशिष्टज्ञानादिगुणमन्तरेण स्वयमेव प्रवृत्तो यथाप्रवृत्त उच्यते । यथाप्रवृत्तं च तत्करणं च तत्तथा तेनेति गाथार्थः ॥ ८॥ एतदेव स्पष्टयनाह एवं गिरिसरिदुवल-कमेण काऊण गंठिभेयं तु । कोडाकोडीअंतो, जा पत्तो गंठिदसंमि ॥ ९ ॥ व्याख्या-'गिरिसरिदुपलक्रमेणेति' यथा गिरिनद्यामुपलः कश्चिद् घञ्चनाघोलनावशतः स्वयमेव घर्षयित्वा त्रिकोणादिभावं भजते । एवं यथाप्रवृत्तिकरणेन जीवोऽपि स्वयमेव कोटाकोटिपर्यन्तं मोहकर्म कृत्वा तुः पुनरर्थे यावद् ग्रन्थिदेश प्राप्तः॥९॥ द॥१०॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy