SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 1 श्रीप्रवचनपरीक्षा ८ विश्रामे ॥९४॥ DESHONOHOTOHOR OUGHOUT SHOW स्यात् साक्षान्नारी च चित्रलिखितनारीवादिति, ननु चित्रलिखिता नारी साक्षान्नारीवत्कार्यकरी न स्यात्तद्युक्तं परं साक्षान्नारी चित्र| लिखितनारीवत् कार्यकरी न स्यात् तत्कथमिति चेच्छ्रणु, चित्रलिखिता हि नारी हर्षशोकादिरहिता भोजनपरिधानादिकमनिच्छन्ती स्थिरभावापन्ना गृहादिशोभाहेतुः कुशीलजनसकाशादप्यशङ्कनीया चेत्यादिरूपा, न चैवं साक्षान्नारीति, एवं जिनप्रतिमाऽपि धर्मोपदेशादावसमर्थापि प्रतिसमयपुण्यप्रकृतिबन्धनिदान तीर्थकृत्स्मृतिहेतुः यादृच्छिकसमय दर्शनाराधनपूजादिविषयः भावजिनापेक्षया बहुविधविध्याराधनीया च, यतः शक्रादयोऽपि जिनजन्मोत्सवादौ अष्टाहिकामहस्तु नन्दीश्वरादावेव कुर्वन्ति, न पुनः साक्षात्तीर्थकरसमीपेऽपीति, तस्माद्यद्वस्तु येन स्वरूपेण यस्य कार्यस्य हेतुस्तत्तथैव श्रद्धेयं, न पुनर्वैपरीत्यमुद्भाव्योद्भान्ताः कर्त्तव्या मुग्धजना इतिगाथार्थः ॥ ७८ ॥ अथ लुम्पकः शङ्कते - न नहउत्तारो खलु संखानिअओ अ इरिअसंजुत्तो । पूआ तव्विवरीआ अह आणातुल्लया तत्थ १ ॥७९॥ ननु भोः नद्युक्त्तारः खलु निश्चितं संख्यानियतः, यदागमः- “ णो कप्पर णिग्गंथाण वा २ इमाउ उद्दिठाओ गणिआओ वितंजिआओ पंच महण्णवाओ महानदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुतो वा उत्तरित्तए वा संतरितए वा, तं०- गंगा ? जउणा २ सरऊ ३ एरावती ४ मही ५” (१ १२-४, २-४-२८) इति स्थानाङ्गे (४१२) एतदृश्येकदेशो यथा “नो कप्पड़" इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसंबन्धः - पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यते, इत्येवमस्याराद्गर्भसूत्रादन्येषां च संबन्धिनां नो कप्पर इत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पड़' त्ति न कल्पन्ते- न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वाद्, 'वत्थगंधमलङ्कार' मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः - साधवस्तेषां तथा निर्ग्रन्थीनां - साध्वीनामिह प्रायस्तुल्यानुष्ठानत्वमुभये DIGONGHONGKONGHOISONGS पूजाप्रति मादिसिद्धिः ॥९४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy