________________
भीप्रवचनपरीक्षा विश्रामे ॥९ ॥
पूजाप्रति. मादिसिद्धिा
OSHONNOLOGHORGROROLOजाना
वृषभयोषित्तीर्थकृतां रूपाणि पश्यतां वृक्षादयः खखरूपेण स्थिता स्मृतिगोचरीभवन्ति न वा, नान्त्यः, प्रत्यक्षबाधेन वक्तुमशक्यत्वात् , प्रथमे विकल्प चत्वार्यपि वृक्षादिरूपाणि क्रमेण चत्वारोऽपि साधवः पश्यन्तः कर्मबन्धमधिकृत्य सदृशा एव भण्यन्ते उत विसदृशा वा ?, प्रथमे जगद्व्यवस्थाभङ्गः, भगिनीभार्यादौ सदृशबुद्ध्या प्रवृत्तौ सर्वेऽपि पदार्था एकरूपतामापना भवेयुः, तच्च आबालगोपाङ्गनादीनामप्यसम्मतम् , अथ विसदृशा इति द्वितीयविकल्पश्चेत्सिद्धं नः समीहितं, यतस्तत्र वैसदृश्ये बीजं तावत् तत्तद्वस्तूनां स्मृतिरेव, तथा च यद् यद्वस्तु यस्य यस्य वस्तुनः स्मृतिहेतुस्तत्तद्वस्तु कथंचित्तद्वदेव बोध्यं, यथा साक्षात् सरागदृष्ट्या नारीनिरीक्षणं पापं तथा चित्रलिखितनारीनिरीक्षणमपि पापं, तद्दर्शनात्तत्स्मृतेः सर्वजनप्रतीतत्वाद् , अत एव साधूनां चित्रलिखि| तनार्या अपि निरीक्षणं निषिद्धं, यदागमः-"चित्तमित्तिं न निज्झाए, नारिं पा सुअलंकि। भक्खरंपि व दठ्ठणं, दिहिं पडिसमा.
हरे॥१॥"त्ति (३९८*) श्रीदशवै०, किंच-यथा चित्रलिखितनार्या नारीस्मृतिर्न तथा वृक्षादीनां तीर्थकृतां वा स्मृतिर्भवति,खानुभ|वबाधाद्, एवं तीर्थकरप्रतिमादर्शनान्न नारीप्रभृतीनां स्मरणं, किंतु तीर्थकृतामेव, तदपि यदि लुम्पकस्यानिष्टं तर्हि नियमातीर्थकरेण | सह वैरित्वमेव बोध्यं, सति वा मित्रीभावे मित्रस्मृतिहेतूनां पुनः पुनरभ्यासविषयीकरणाहत्वाद् , यदुक्तं-"दुर्जनविभवविपत्तिप्रियजनसंदेशितानि वाक्यानि । कथितान्यपि कथय सखे! पुनरपि तान्येव तान्येव ॥१॥" इत्येतेन काष्ठमय्याः स्त्रियाः किमपत्योत्पत्तिभवेदेवं जिनप्रतिमाया अपि धर्मो बोध्य इत्याद्यसंबद्धवाक्यं वदन् मुखरिढुंम्पको निरस्तो बोध्यः, सर्वस्यापि वस्तुनः क्वचिदंशे सा|मर्थ्याभावेऽपि सर्वत्र सामर्थ्यराहित्यमेवेति नियमाभावात , कनककामिन्यादिष्वेव व्यभिचारात, नहि कनकं कामिनीवत्कार्यकारि स्थानवा कामिनी कनकवदिति खसाध्ये कार्ये चोभयोरपि सामर्थ्यम् , एवं चित्रलिखितनारी साधानारीवत्कार्यकारिणी न
॥९३॥