________________
श्रीप्रवचन
परीक्षा ८विश्रामे
॥९१
AGHOUGHoGORORORORORSHORORO
शुभवस्तुजातमन्तरेणासंभविनीत्यनन्यगत्यैव पुष्पादिसचित्तद्रव्योपयोगः, न च तथा यागे पशुवधोऽनन्यगत्या सिद्धः, यतः सापजाप्रति पशुवधः किमभीष्टदेवतामूर्त्यर्थं किंवा तत्पूजाद्यर्थ उत सांसारिकसुखप्राप्त्यर्थमथवा देवविशेषतुष्ट्यर्थ मोक्षार्थ वा ?, नाद्यः प्रत्यक्ष- मादिसिदिए बाधात् , नहि कोऽपि पशुचर्मास्थिमांसादिद्रव्येणाभीष्टदेवतामूर्ति कुर्वाणो दृष्टः श्रुतो वा, किंतु जैनवत् पार्थिवद्रव्येणैव, नापि द्वितीयस्तादृगशुभाशुचिद्रव्येण देवपूजाया असंभवात् तथा प्रवृत्तेरप्यभावाच्च, हरिहरब्रह्मादिमृीनां पूजाया अपि स्रक्चन्दनादिनैव दृश्यमानत्वात् , नापि तृतीयो विकल्पो जल्पनाहः, यागे हि सांसारिकसुखप्राप्त्यर्थ क्रियमाणे मृगयावद्यागोऽपि संपन्नः, व्याधेन मृगयायां मृगादिवधोऽपि सांसारिकसुखप्राप्त्यर्थमेव क्रियते, चतुर्थे यस्य देवविशेषस्य निमित्तं हता एव पशवस्तुष्टिहेतवो भवन्ति, | स च देवविशेषो मनुष्यजातिष्विव देवजातिषु व्याधचण्डालावधमजनकल्पः, अत एव हरिहरदिवाकरादिमूर्तीनां पुरस्तान पशुवधस्तेषामपि सम्मतः, तन्मतेऽपि विष्णुप्रभृतीनां देवेषक्तत्वात , तसात्तस्य तुष्टिनिमित्तं हताः पशवो महानेवाधर्मोऽतो यागोऽपि तजन्यो | नरकादिहेतुरेवेति कथं तदर्थ हताः पशवोऽनन्यगत्येत्याधुक्त सम्यग्?, नापि पञ्चमो 'ज्योतिष्टोमेन वर्गकामो यजेते'त्यादिवाक्यैरेव यागस्य मोक्षसाधनत्वेनानभ्युपगमात् , नन्वास्तां यागः, परं यथाऽन्यतीर्थिकैः स्वस्वामिमतहरिहरदिवाकरलम्बोदरादिदेवानां प्रासादप्रतिमापूजादिकं पृथिव्याद्यारम्मेणैव क्रियते तथा जैनैरपि जिनेन्द्राणां प्रासादप्रतिमापूजादिकं विधीयते, तथा च कोऽनयोविशेष इति चेद् अहो भ्रान्तत्वं भवतः, यतो जिनेन्द्रमूर्तिर्जिनेन्द्रविकल्पेन कृता सती जिनेन्द्रस्मृतिहेतुः, हरिहरादिमूर्तिस्तु तद्विक-2 ल्पनेन निर्मापिता तेषामेव स्मृतिहेतुरित्येवं महत्यन्तरे सत्यपि विशेषाभावं पश्यसि, किंच-विशेषाभावोऽपि सर्वप्रकारेण साधादुत चैतन्यराहित्यपार्थिवद्रव्यनिष्पन्नत्वपुष्पादिपूज्यत्वादिलक्षणेन केनचिदन्यतमेन धर्मेण वा ?, आये प्रत्यक्षबाधात् , नामा
POOGHOROUGHORD