SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ | पूजाप्रति भीप्रवचन परीक्षा ८ विश्रामे ॥९०॥ मादिसिदिर इति वचनात् त्रसविराधनाया विद्यमानत्वात्पत्याख्यानभङ्गप्रसक्ती प्रवचनेऽत्यन्तमासमञ्जस्यमापयेत, तस्माद्यत्किचिदेतत् न चैव| मब्रह्मसेवायां त्रसविराधनापातकमपि न भविष्यतीति शङ्कनीयम् ,अब्रह्मसेवाया अप्यधर्मरूपत्वेन जिनैःप्रतिषिद्धत्वाद् ,अधर्मे च क्रियमाणे यद्यप्यनन्यगत्या प्रत्याख्यानभङ्गोन स्यात्तथापि तज्जन्यपातकस्यावश्यं भावात् , परं प्रत्याख्यानिनां सम्यग्दृष्टित्वावश्यंभावात् | पापकरणे सशङ्कितत्वेन तथाविधक्लिष्टपरिणामाभावान्मन्दाध्यवसायाचाल्पबन्धः, यदुक्तं-"सम्मदिछी जीवो जइविहु पावं समा| यरे किंची। अप्पो से होइ बंधो जेण न निद्धंधसं कुणइ॥॥"त्ति, अत्र सम्यग्दृष्टित्वेन सांसारिककृत्येष्वप्यल्पो बन्धो भणितः, कथं | तर्हि जिनपूजादिष्वपि कर्मबन्धोऽशुभो वा भूयात् वा भवेदिति प्रसङ्गतो बोध्यम् , एतेनानन्यगत्यारम्भादिः सर्वत्रापि न पापहेतु भविष्यतीति शङ्कापि निरस्ता, धर्मकृत्यरतानां धर्ममुद्दिश्य यतनया तथा प्रवर्त्तने द्रव्यत आरम्भाद्यभ्युपगमात् , नन्वेवं पशुवध| मन्तरेण यागाद्यसंभवादनन्यगत्यैव पशुवधे सिद्धे जिनपूजातुल्यतैव यागेऽपीतिचेन्मैवं, तत्रानन्यगतेरेवाभावात् , यतोऽनन्यगत्या|ऽप्यारम्भो धर्मकृत्येष्वेव द्रव्यारम्भतयाऽभ्युपगतः, न पुनरधर्मकृत्येष्वपि, अन्यथा मृगादिवधमन्तरेण मृगयाया अप्यसंभवात् मृग| वधोऽपि द्रव्यवधतयाऽभ्युपगन्तव्यः प्रसज्येत, तेन धर्मे वस्तुगत्या यो धर्मः स च सिध्यन् यदनादाय न सिध्यति तदनन्यगत्या | सिद्धं बोध्यं, तच्च जैनप्रवचनादन्यत्र न संभवत्येव, यतः शाक्यादिषु यागादिकृत्यानामपि वस्तुगत्या न धर्मत्वं, कुतोऽनन्यगतिरपि?, तथाहि-सर्वेष्वपि धर्मानुष्ठानेषु पारमेश्वरं ध्यानं वीजाभं, तच्च तदाकृतिपरिज्ञानमन्तरेणासंभवीतिकृत्वा जैनप्रवचने जिनेन्द्रे विद्यमाने तद्रष्टृणां साक्षात्संपर्के जिनेन्द्रशरीरमेव जिनेन्द्रध्यानहेतुः, कालदेशादिव्यवधाने च तत्प्रतिकृतिरेव, सा च प्रतिमा प्रशस्त| पार्थिवद्रव्यमन्तरेणासंभविन्येवेति तत्प्रतिमोपयोगितावन्मात्रपार्थिवग्रहणमनन्यगत्यैव सिद्ध, पूजाऽपि प्रशस्तस्रक्चन्दनादिसुगन्ध PHONOROUGHOUGHORGHOOT ॥९ ॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy