________________
पूजाप्रति
श्रीप्रवचन- धर्म-धर्मविषये जिनार्चनादिनिमित्तमित्यर्थः "अणारम्भओ"त्ति अनारम्भ एवानारम्भको-भृतोपमईपरिहारः, किमित्याह-'अना
परीक्षा | भोगो' ज्ञानाभावो वर्तते, अनाभोगकार्यत्वादनारम्भस्य, अथवा अनारम्भतः-अनारम्भादनाभोगोऽवसीयते, ज्ञानाभाव एव हि मादिसिद्धिा ८ विश्रामे शास्त्रानुगतोऽपि जिनार्चनादिगत आरम्भोऽकृत्यतयाऽवभासते, तथा 'लोके' शिष्टजने तन्मध्य इत्यर्थः प्रवचनखिंसा-जिनशासना॥८९॥
बालाघा पूजाविधानाप्रतिपादनपरं जिनशासनम् , अन्यथा कथमार्हताः शौचादिव्यतिरेकेणापि जिनं पूजयन्तीत्यादिरूपा भवति, सा | चाबोधेः-जन्मान्तरे जिनधर्माप्राप्तेः बीजमिव वीज-हेतुरबोधिबीजमित्येतावनन्तरोक्तौ दोषौ-दूषणे भवतः, चशब्दोऽनाभोगापेक्षया समच्चयार्थः, अथवा दोषाय भवति-धर्माप्राप्तिलक्षणाय तदबोधिबीजं संपद्यत इतिशब्दः समाप्तौ, ततो द्रव्यतः स्नानेन शुद्धवस्त्रेण जिनपजा विधेयेति गाथार्थः।। इतिश्रीपश्चाशकवृत्तौ। ननु भवतु श्रावकाणां जिनपूजाविधानादावारम्भः, परं प्रत्याख्यातसर्वसावद्यानां साधनां तु पृथिव्याद्यारम्भ कथं न प्रत्याख्यानभङ्ग इति चेदुच्यते, जिनाज्ञयाऽवश्यकव्यतामापन्ने साधूचिते विहारादिकर्मणि यतनया तद्विधानैकचित्तानां साधूनां भावतः पृथिव्याद्यारम्भपरिणामाभावाव्यत एव तदारम्भः, स च न प्रत्याख्यान
भाहेतः, अन्यथा प्रतिधर्मानुष्ठानं पुनः पुनः प्रव्रज्योच्चारणं प्रसज्येत, तस्माद्रव्यत आरम्भादिरल्पलेपरजःस्पर्शमात्रकल्पस्थापाकृतिपर्यापथिकापठनमात्रसाध्येतिकृत्वा जिनैरीर्याप्रथिकाप्रतिक्रमणं नद्याद्युत्तारादावुपदिष्टं, यदागमः-"हत्थसयादागंतुं गंतुं च महत्तगं
जहिं चिढ़े। पंथे वा वच्चंते नइसंतरणे पडिक्कमइ॥१॥त्ति श्रीआवश्यकनियुक्ती,नियुक्त्यनङ्गीकारे ईर्यापथिकाया अप्यभावः,निर्यतिव्यतिरिक्त सत्रे नद्युत्तारानन्तरमीर्याया अनुक्तत्वात् ,किंच-यदि जिनोपदिष्टधर्मानुष्ठानेऽप्यनन्यगत्याऽप्यारम्भसंभवे प्रत्याख्यानभडकल्पनापि क्रियते तहिं स्थूलप्राणातिपातविरतानां श्रावकाणामप्यब्रह्मसेवने "मेहुणसबारुढो नवलक्खे इणइ सुहमजीवाण"Ich
॥८ ॥
जालमाROOGLका